Table of Contents

<<5-4-53 —- 5-4-55>>

5-4-54 तदधीनवचने

प्रथमावृत्तिः

TBD.

काशिका

अभूततद्भावे इति निवृत्तम्, अर्थान्तरोपादानात्। कृभ्वस्तियोगे सम्पदा च इति वर्तते। तदधीनं तदायत्तं, तत्स्वामिकम् इत्यर्थः। स्वामिसामान्यम्, ईशितव्यसामान्यम् च तदधीनशब्देन निर्दिश्यते। स्वामिविशेषवाचिनः प्रातिपदिकातीशितव्ये ऽभिधेये सातिः प्रत्ययो भवति कृभ्वस्तिभिः सम्पदा च योगे। राजाधीनं करोति राजसात्करोति। राजसाद्भवति। राजसत्स्यात्। राजसात्सम्पद्यते। ब्राह्मणसत्करोति। ब्राह्मणसाद्भवति। ब्राह्मणसात्स्यात्। ब्राह्मणसात्सम्पद्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तदधीनवचे। शेषपूरणेन सूत्रं व्याचष्टे–सातिः स्यादित्यादिना। `अभूततद्भावे' इति निवृत्तमिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.