Table of Contents

<<5-4-52 —- 5-4-54>>

5-4-53 अभिविधौ सम्पदा च

प्रथमावृत्तिः

TBD.

काशिका

अभिविधिः अभिव्याप्तिः। अभिविधौ गम्यमाने च्विविषये सातिः प्रत्ययो भवति सम्पदा योगे, चकारात् कृभ्वस्तिभिश्च। विभाषाग्रहणानुवृत्तेः च्विरप्यभ्यनुज्ञायते। स तु कृभ्वस्तिभिरेव योगे भवति, न सम्पदा। अग्निसात्सम्पद्यते, अग्निसाद्भवति। उदकसात्सम्पद्यते, उदकसाद्भवति लवणम्। अग्नीभवति। उदकीभवति। अथाभिविधेः कार्त्स्न्यस्य च को विशेषः? यत्र एकदेशेन अपि सर्वा प्रकृतिर् विकारम् आपद्यते सो ऽभिविधिः, यथा अस्यां सेनायाम् उत्पातेन सर्वं शस्त्रम् अग्निसात्सम्पद्यते, वर्षासु सर्वं लवणमुदकसात्सम्पद्यते इति। कार्त्स्न्यं तु सर्वात्मना द्रव्यस्य विकाररूपापत्तौ भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1580 अग्निसाद्भवति शस्त्रमिति। जातावेकवचनम्। सर्वाणि शस्त्राणीत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.