Table of Contents

<<5-4-52 —- 5-4-54>>

5-4-53 अभिविधौ सम्पदा च

प्रथमावृत्तिः

TBD.

काशिका

अभिविधिः अभिव्याप्तिः। अभिविधौ गम्यमाने च्विविषये सातिः प्रत्ययो भवति सम्पदा योगे, चकारात् कृभ्वस्तिभिश्च। विभाषाग्रहणानुवृत्तेः च्विरप्यभ्यनुज्ञायते। स तु कृभ्वस्तिभिरेव योगे भवति, न सम्पदा। अग्निसात्सम्पद्यते, अग्निसाद्भवति। उदकसात्सम्पद्यते, उदकसाद्भवति लवणम्। अग्नीभवति। उदकीभवति। अथाभिविधेः कार्त्स्न्यस्य च को विशेषः? यत्र एकदेशेन अपि सर्वा प्रकृतिर् विकारम् आपद्यते सो ऽभिविधिः, यथा अस्यां सेनायाम् उत्पातेन सर्वं शस्त्रम् अग्निसात्सम्पद्यते, वर्षासु सर्वं लवणमुदकसात्सम्पद्यते इति। कार्त्स्न्यं तु सर्वात्मना द्रव्यस्य विकाररूपापत्तौ भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

–

तत्त्वबोधिनी

1580 अग्निसाद्भवति शस्त्रमिति। जातावेकवचनम्। सर्वाणि शस्त्राणीत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.