Table of Contents

<<5-4-51 —- 5-4-53>>

5-4-52 विभाषा साति कार्त्स्न्ये

प्रथमावृत्तिः

TBD.

काशिका

अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि इति सर्वम् अनुवर्तते। अस्मिन् विषये विभाष सातिः प्रययो भवति कार्त्स्न्ये गम्यमाने। यदि प्रक्र्तिः कृत्स्नां विकारात्मतामापद्यते इत्यर्थः। अग्निसाद्भवति शस्त्रम्, अग्नीभवति शस्त्रम्। उदकसाद्भवति, उदकीभवति लवणम्। कार्त्स्न्ये इति किम्? एकदेशेन पटः शुक्लीभवति। विभाषाग्रहणम् च्वेः प्रापकम्। प्रत्ययविकल्पस् तु महाविभाषय एव सिद्धः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1247 च्विविषये सातिर्वा स्यात्साकल्ये..

बालमनोरमा

विभाषा साति। `साती'ति लुप्तप्रथमाकम्। च्विविषये इति। अभूततद्भावे संपद्यकर्तरि कृभ्यस्तियोगे इत्यर्थः।

तत्त्वबोधिनी

1579 विभाषा साति। विभाष्यते विकल्प्यते इति विभाषा। `गुरोश्च हलः'इत्यकारप्रत्ययः। ततः टाप्। न त्विदमव्ययं `द्वयोर्विभाषयोर्मध्ये',`पयसस्तु विभाषया'इत्यादौ बिभक्तेर्दर्शनात्। कृत्स्नमिति। सर्वावयवोपेतमित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.