Table of Contents

<<5-4-4 —- 5-4-6>>

5-4-5 न सामिवचने

प्रथमावृत्तिः

TBD.

काशिका

सामिवचने उपपदे क्तान्तात् कन्प्रत्ययो न भवति। सामिकृतम्। सामिभुक्तम्। वानग्रहणं पर्यायार्थम्। अर्धकृतम्। नेमकृतम्। सामिवचने प्रतिषेधानर्थक्यम्, प्रकृत्याभिहितत्वात्? एवं तर्हि न एव अयम् अनत्यन्तगतौ विहितस्य कनः प्रतिषेधः, किं तर्हि, स्वार्थिकस्य। केन पुनः स्वर्थिकः कन् विहितः? एतदेव ज्ञापकं भवति स्वार्थे कनिति। तत्र यदेतदुच्यते, एवं हि सूत्रम् अभिन्नतरकं भवति, एतैर् हि बहुतरकं व्याप्यते इत्येवम् आदि, तदुपपन्नं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

न सामिवचने। वचनग्रहणं पर्यायलाभार्थमिति मत्वाऽऽह–सामिपर्याये उपपदे इति। सामिकृतमिति। `सामी'त्यव्ययमर्धे। `सामी'ति समासः। अर्धकृतमिति। अर्धं कृतमिति कर्मधारयः। `सामी'त्यस्य क्रियाविशेषणत्वेन कारकत्वात्समुदायस्य क्तान्तत्वं, कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात्। नन्विह अनत्यन्तगतेः प्रकृत्यैवाभिहितत्वात् `उक्तार्थानामप्रयोगः' इति न्यायेन पूर्वसूत्रविहितस्य कनोऽप्रसक्तेरिह तन्निषेधो व्यर्थ इति शङ्कते–अनत्यन्तगतेरिति। परिहरति– इदमेवेति। `तथापी'ति पूर्वमध्याहार्यम्। ज्ञापयतीति। न ह्रयमनत्यन्तगताविति कनः प्रतिषेधः। किं तर्हि, अत्यन्तस्वार्थिकस्य कनः। तत्र च इदमेव ज्ञापकम्। अन्यथा तद्वैयथ्र्यादिति भावः। बहुतरकमिति। बहुतरमेव बहुतरकम्। भाष्ये तु इदं सूत्रं प्रत्याख्यातम्। `तमबाद्यन्तात्स्वार्थे कन्वक्तव्यः' इति वचनेन, यावादित्वाद्वा स्वार्थे कनाबहुतरक सुकरतरकमित्यादि सिद्धमिति तदाशयः।

तत्त्वबोधिनी

1546 न सामिवचने। सामि अर्थ उच्यते ये तत्सामिवचनमिति व्यत्पत्त्या वचनग्रहणं पर्यायार्थमित्याह—सामिपर्याये इति। सामिकृतमिति। `सामी'ति समासः। अर्धकृतमिति। विशेषणसमासो बहुव्रीहिर्वा। प्रकृत्यैवेति। सामिवचनेनैवेत्यर्थः। ज्ञापयतीति। अयं भावः—`न सामिवचने'इत्यनेन `अनत्यन्तगतौ'इति कनो न निषेधः, सामिकृतादिभ्यस्तस्य प्राप्त्यभावात्, एतभ्योऽसमासे सामिपदेनैव अनत्यन्तागतेर्द्योतनात्। समासेभ्यस्तु क्तान्तत्वाऽबावाच्च। न च कृद्ग्रहणपरिभाषया समासस्य क्तान्तत्वमस्तीति शङ्क्यं, सामिशब्दस्य गतिकारकत्वाऽभावात्। तस्मात् स्वार्थिक एव कन्निषिध्यति इति। इदमेव निषेधवचनं क्चित्स्वार्थिकं कनं ज्ञापयतीति।

Satishji's सूत्र-सूचिः

TBD.