Table of Contents

<<5-4-3 —- 5-4-5>>

5-4-4 अनत्यन्तगतौ क्तात्

प्रथमावृत्तिः

TBD.

काशिका

अत्यन्तगतिः अशेषसम्बन्धः, तदभावो ऽन्त्यन्तगतिः। अनत्यन्तगतौ गम्यमानायां क्तान्तात् कन्प्रत्ययो भवति। भिन्नकः। छन्नकः। अनत्यन्तगतौ इति किम्? भिन्नम्। छिन्नम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अनत्यन्तगतौ क्तात्। अत्यन्तगतिरशेषावयवसम्बन्धः, तदभावः=अनत्यन्तगतिः, तस्यां गम्यमानायां क्तान्तात्कन्नित्यर्थः। छिन्नकमिति। किञ्चिदवयवावच्छेदेन छिन्नमित्यर्थः।

तत्त्वबोधिनी

1545 छिन्नकमिति। ईषच्छिन्नमित्यर्थः। क्तप्रकृतिवाच्यया क्रियया कप्रत्ययवाच्यस्य साधनस्य व्याप्तिरत्यन्तगतिः। सेह नास्ति।

Satishji's सूत्र-सूचिः

TBD.