Table of Contents

<<5-4-45 —- 5-4-47>>

5-4-46 अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः

प्रथमावृत्तिः

TBD.

काशिका

अतिक्रम्य ग्रहः अतिग्रहः। अचलनम् अव्यथनम्। क्षेपो निन्दा। अतिग्रहादिविषये या तृतीया तदन्ताद् वा तसिः प्रत्ययो भवति, सा चेत् कर्तरि न भवति। वृत्तेन अतिगृह्यते वृत्ततो ऽतिगृह्यते। चारित्रेण अतिगृह्यते चारित्रतो ऽतिगृह्यते। सुष्ठुवृत्तवानन्यानतिक्रम्य वृत्तेन गृह्यते इत्यर्थः। अव्यथने वृत्तेन न व्यथते वृत्ततो न व्यथते। चारित्रेण न व्यथते चारित्रतो न व्यथते। वृत्तेन न चलति इत्यर्थः। क्षेपे वृत्तेन क्षिप्तो वृत्ततः क्षिप्तः। चारित्रेण क्षिप्तः चारित्रतः क्षिप्तः। वृत्तेन निन्दितः इत्यर्थः। अकर्तरि इति किम्? देवदत्तेन क्षिप्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

–

तत्त्वबोधिनी

1573 अतिगृह्रत इति। अन्याऽतिक्रमेण लौकैर्गृह्रत इत्यर्थः। फलितमाह— अन्यानतिक्रम्य वर्तत इति।

Satishji's सूत्र-सूचिः

TBD.