Table of Contents

<<5-4-44 —- 5-4-46>>

5-4-45 अपादाने च अहीयरुहोः

प्रथमावृत्तिः

TBD.

काशिका

अपादाने या पञ्चमी तस्याः पञ्चम्याः वा तसिः प्रत्ययो भवति, तच् चेदपादानं हीयरुहोः सम्बन्धि न भवति। ग्रामतः आगच्छति, ग्रामात्। चोरतः बिभेति, चोरात्। अध्ययनतः पराजयते, अध्ययनात्। अहीयरुहोः इति किम्? सार्थाद् हीयते। पर्वतादवरोहति। हीयते इति क्विकारनिर्देशो जहातेः प्रतिपत्त्यर्थः, जिहीतेर् मा भूत्, भूमित उज्जिहीते, भूमेरुज्जिहीते। कथं मन्त्रो हीनः स्वरतो वर्णतो वा इति। न एषा पञ्चमी। किं तर्हि, तृतीया। स्वरेण वर्णेन वा हीनः इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1572 ग्रामत इथि। एवम् अध्ययनात्पराजयते, अध्ययनत इत्याद्यपि बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.