TBD.
स्थूलादिभ्यः प्रकारवचने द्योत्ये कन्प्रत्ययो भवति। जातीयरः अपवादः। प्रकारो विशेषः। स्थूलप्रकारः स्थूलकः। अणुकः। माषकः। कन्प्रकरणे चञ्चद्बृहतोरुपसङ्ख्यानम्। चञ्चत्प्रकारः चञ्चत्कः। बृहत्कः। चञ्चद्बृहयोः इति केचित् पठन्ति। तेषां चञ्चकः, बृहकः इति उदाहरणं द्रष्टव्यम्। स्थूल। अणु। माष। इषु। कृष्ण तिलेषु। यव व्रीहिषु। पाद्यकालावदाताः सुरायाम्। गोमूत्र आच्छादने। सुराया अहौ। जीर्ण शालिषु। पत्रमूले समस्तव्यस्ते। कुमारीपुत्र। कुमार। श्वशुर। मणि। इति स्थूलादिः।
TBD.
–
स्थूलादिभ्यः। प्रकारो भेदः सादृश्यं च, व्याख्यानात्, तद्वति वर्तमानाद्यथायोयं कन्नित्यर्थः। जातीयरोऽपवाद इति। एतेन अयमपि तद्वदेव प्रकारवति भवति, नतु प्रकारमात्रे इति सूचितम्। यश्चञ्चन्निव दृश्यते स चञ्चत्कः। यथा स्पन्दमानस्वच्छजनमध्यवर्ती मणिः। बृहत्क इति। अबृहन्नपि बृहन्निव दृश्यते स बृहत्कः, बृहदाख्यसामविशेषो वा। सुराया अहाविति। गणसूत्रमिदम्।`प्रकारवचने क'न्निति शेषः। सुराया अहावेवेति नियमार्थमिदम्। सुरक इति। `केऽण' इति ह्यस्वः।
1544 स्थूलादिभ्यः। प्रकारोभेदः सादृश्यं च। उभयत्रापि यथासंभवं कन्। जातीयरोऽपवाद इति। तेनायमपि तद्वदेव प्रकारवति भवति न तु प्रकारमात्रे इत्युक्तं भवति। पठितव्याविति भावः। चञ्चत्क इति। चञ्चतिश्चलनकर्मा। चञ्चत्कः। एवं बृहद्विशेषो बृहत्कः। अचञ्चन्नबृहन्नपि प्रभाविशेषाच्चञ्चन्निव बृहन्निव मणिविशेषो लक्ष्यते स चञ्चत्कः। बृहत्कः। सुरक इति। `केऽणः'इति ह्यस्वः।
TBD.