Table of Contents

<<5-4-33 —- 5-4-35>>

5-4-34 विनयादिभ्यष् ठक्

प्रथमावृत्तिः

TBD.

काशिका

विनय इत्येवम् आदिभ्यः स्वार्थे ठक् प्रत्ययो भवति। विनय एव वैनयिकः। सामयिकः। औपयिकः। विभाषाग्रहणेन प्रत्ययो विकल्प्यते। विनय। समय। उपायाद्घ्रस्वत्वं च। सङ्गति। कथञ्चित्। अकस्मात्। समयाचार। उपचार। समाचार। व्यवहार। सम्प्रदान। समुत्कर्ष। समूह। विशेष। अत्यय। विनयादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

विनयादिभ्यः। उपायाद्ध्रस्वत्वं चेति। गणसूत्रमिदम्। उपायशब्दात्स्वार्थे। ठक्, प्रकृतेदर्दीर्घस्य ह्यस्वत्वं चेत्यर्थः। ह्यस्वस्य ह्यस्वविधौ वैयथ्र्याद्दीर्घस्येति गम्यते। वक्तव्य'मिति दूतं प्रति योऽर्थ उच्यते स व्याह्मतः,व्याह्मतोऽर्थो यस्या इति विग्रहः। तदाह–संदिष्टार्थायामिति।

तत्त्वबोधिनी

1564 उपाय इति। उपायशब्दष्ठकं लभते ह्यस्वत्वं चेत्यर्थः। अकस्माच्छब्दोऽत्र पठ\उfffद्ते स तु दान्तो न तु तान्तः। तेन कादेशो न। `अव्ययाना भमात्रे टिलोपः'। आकस्मिकम्।

Satishji's सूत्र-सूचिः

TBD.