Table of Contents

<<5-4-22 —- 5-4-24>>

5-4-23 अनन्ताऽवसथैतिहभेषजाञ् ञ्यः

प्रथमावृत्तिः

TBD.

काशिका

अनन्तादिभ्यः स्वार्थे ञ्यः प्रत्ययो भवति। अनन्त एव आनन्त्यम्। आवसथ एव आवसथ्यम्। इति ह ऐतिह्यम्। निपातसमुदायो ऽयम् उपदेशपारम्पर्ये वर्तते। भेषजम् एव भैषज्यम्। महाविभाषया विकल्पते प्रत्ययः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अनन्तावथेतिह। अनन्त, आवसथ, इतिह, भेषज एभ्यः स्वार्थे ञ्यप्रत्ययः स्यादित्यर्थः। अनन्त एवेति। अन्तोनाशः। तस्याऽभावः अनन्तः। अर्थाऽभावे अव्ययीभावेन तद्विकल्पस्योक्तत्वात्। आनन्त्यमिति। स्वार्थिकत्वेऽपि प्रकृतिलिङ्गव्यतिक्रम। आवसथो-गृहम्। निपातसमुदाय इति। स च उपदेश परम्पर्ये वर्तते। तस्मात्स्वार्थे ञ्यः। `पारम्पर्योपदेशे स्यादैतिह्रमितिहाव्यय'मित्यमरः। भैषज्यमिति। भैषजम्=औषधम्, तदेव भैषज्यम्। `भेषजौषधभैषज्यानी'त्यमरः।

तत्त्वबोधिनी

1558 आवसथ इति। `उपसर्गे वसेः'इत्यथप्रत्ययः। निपातसमुदाय इति। उपदेश पारम्पर्ये वर्तते, वचनाच्चाऽप्रातिपदिकादेव प्रत्ययः। `ऐतिह्रमितिहाऽव्यय'मिति कोशः। भेषजमिति। भिषज्यतेः कण्ड्वादियगन्तत्क्विपे। भिषक्। भिषजामिदं भेषजम्। अस्मादेव निपातनादेकारः।

Satishji's सूत्र-सूचिः

TBD.