TBD.
तत्प्रकृतवचने इत्येव। बहुसु प्रकृतेषु उच्यमानेसु समूहवत् प्रत्यया भवन्ति। चकारात् मयट् च। मोदकाः प्रकृताः प्राचुर्येण प्रस्तुताः मौदकिकम्, मोदकमयम्। शाष्कुलिकम्, शष्कुलीमयम्। अतिवर्तन्ते ऽपि स्वार्थिकाः प्रकृतितो लिङ्गवचनानि। द्वितीये सूत्रार्थे मोदकाः प्रकृताः अस्मिन् यज्ञे मौदकिको यज्ञः, मोदकमयः। शाष्कुलिकः, शष्कुलीमयः।
TBD.
–
समूहवच्च। बहुषु। तत्प्रकृतवचने इत्येव। सामूहिका इति। `तस्य समूहः' इत्यधिकारविहिताः प्रत्यया इत्यर्थः। बहुषु प्राचुर्यविशिष्टेषु वर्तमानाच्छब्दात्स्वार्थे समूहवत्प्रत्ययाः स्युरित्यर्थः। यद्वा बहुत्वविशिष्टानि प्राचुर्यविशिष्टानि वस्तूनि यस्मिन्नधिकरणे उच्यन्ते, तदधिकरणे वाच्ये तद्वस्तुवृत्तेः शब्दात्समूहवत्प्रत्ययाः स्युरित्यर्थः। आद्ये उदाहरति– मोदकाः प्रकृता मौदकिकमिति। `अचित्तहस्तिधेनो'रिति सामूहिकष्ठक्। स्वार्थिकत्वेऽपि प्रकृतिलिङ्गातिक्रमः कुटीरवत्। शाष्कुलिकमिति। शष्कुलयः प्रचुरा इत्यर्थः। पूर्ववट्ठक्, प्रकृतिलिङ्गातिकमश्च। द्वितीयेऽर्ते मौदिकको यज्ञ इति। मोदका अस्मिन्यज्ञे उच्यन्त इति विग्रहः।
1557 मौदकिकम्। शाष्कुलिकमिति। `अचित्तहस्तिधेनोष्ठक्'।
TBD.