TBD.
देवताशब्दान्तात् प्रातिपदिकात् चतुर्थीसमर्थात् तादर्थे यत्प्रत्ययो भवति। तदर्थ एव तादर्थ्यम्। चातुवर्ण्यादित्वात् ष्यञ्। तदिति प्रकृत्यर्थे निर्दिश्यते। आग्निदेवतायै इदम् अग्निदेवत्यम्। पितृदेवत्यम्। वायुदेवत्यम्।
TBD.
–
देवतान्तात्तादर्थ्ये यत्। तदर्थ एवेति। तच्छब्देन देवतान्तस्यार्थ उच्यते, तस्मै अयं तदर्थः, ततः स्वार्थे चतुर्वर्णादित्वात् ष्यञित्यर्थः। देवतान्तात्प्रातिपदिकाद्यत्स्यात्प्रकृत्यार्थे वस्तुनि वाच्य इत्यर्थः। `त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता मन्त्रस्तुत्या चे'त्युक्तं `सास्य देवते'त्यत्र अतः पितृदेवत्यं रक्षोदेवत्यमित्यादौ नाव्याप्तिः। तदाह– पितृदेवत्यमिति। देवताशब्दस्य देवा भावः। भाष्ये तु`पितृदेवत्यमिति न सिध्यती'त्याक्षिप्य `दिवैरे\उfffदार्यकर्मणो देवः, तस्मात्स्वार्थे त'लिति समाहितम्। हविः प्रति पित्रादीनामी\उfffदारत्वं स्वामित्यम्। हविस्तु यजमानस्य स्वम्। तच्च यजमानेन अग्न्याद्युद्देशेन त्यक्तं चेत्तदाग्न्यादिस्वामिकं भवितुमर्हति। अतो देवतात्वं त्यज्यमानद्रव्योद्देश्यत्वविसेषात्मकमेव भाष्यरीत्याऽपि पर्यवस्य तीत्यलम्।
1559 पितृदेवत्यमिति। पितरश्च ता देवताश्च पितृदेवताः। पितृदेवताभ्य इदमिति विग्रहः।
TBD.