Table of Contents

<<5-4-20 —- 5-4-22>>

5-4-21 तत् प्रकृतवचने मयट्

प्रथमावृत्तिः

TBD.

काशिका

तदिति प्रथमासमर्थविभक्तिः। प्राचुर्येण प्रस्तुतं प्रकृतम्। प्रथमासमर्थात् प्रकृतोपाधिके ऽर्थे वर्तमानात् स्वार्थे मयट् प्रत्ययो भवति। टकारो ङीबर्थः। अन्नं प्रकृतम् अन्नमयम्। अपूपमयम्। अपरे पुनरेवम् सूत्रार्थम् आहुः। प्रक्र्तम् इति उच्यते ऽस्मिनिति प्रकृतवचनम्। तदिति प्रथमासमर्थात् प्रकृतवचने ऽभिधेये मयट् प्रत्ययो भवति। अन्नं प्रकृतम् अस्मिनन्नमयो यज्ञः। अपूपमयं पर्व। वटकमयी यात्रा। द्वयम् अपि प्रमाणम्, उभयथा सूत्रप्रणयनात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1242 प्राचुर्येण प्रस्तुतं प्रकृतम्, तस्य वचनं प्रतिपादनम्. भावे अधिकरणे वा ल्युट्. आद्ये प्रकृतमन्नमन्नमयम्. अपूपमयम्. द्वितीये तु अन्नमयो यज्ञः. अपूपमयं पर्व..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.