Table of Contents

<<5-4-19 —- 5-4-21>>

5-4-20 विभाषा बहोर् धा ऽविप्रक्र्ष्टकाले

प्रथमावृत्तिः

TBD.

काशिका

बहुशब्दात् क्रियाभ्यावृतिगणने वर्तमानात् विभाषा धा प्रत्ययो भवति। कृत्वसुचो ऽपवादः। पक्षे सो ऽपि भवति। अविप्रकृष्टग्रहणं क्रियाभ्यावृत्तिविशेषणम्। क्रियाणामुत्पत्तयश्चेदासन्नकालाः भवन्ति, न विप्रकृष्टकालाः। बहुधा दिवसस्य भुङ्क्ते, बहुकृत्वो दिवसस्य भुङ्क्ते। अविप्रकृष्टकाले इति किम्? बहुकृत्वो मासस्य भुङ्क्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

विभाषा बहोर्धा। अविप्रकृष्टकालिकक्रियाजन्मगणनवृत्तेर्बहुशब्दाद्धाप्रत्ययो वा स्यात्। पक्षे कृत्वसुच्। बहुधा बहुकृत्वो वा दिवसस्य भुङ्क्ते इति। दिवसे प्रातःसङ्गवाद्यव्यवहितकालिकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः। `कृत्वोऽर्थप्रयोगे कालेऽधिकरणे' इति दिवसात्षष्ठीति हरदत्तः। शेषत्वविवक्षायां षष्ठी इति तु नवीनाः।

तत्त्वबोधिनी

1555 बहुधा दिवसस्य भुङ्क्ते इति। शेषत्वविवक्षायां षष्ठी। `कृत्वोऽर्थप्रयोगे कालेऽधिकरणे'इत्यनेन षष्ठी'ति हरदत्तोक्तिस्तु नादर्तव्या, `शेषाधिकारबलेनाष्टसूत्र्याः समासनिवृत्तिफलकतया तिङन्तेनोदाहरण'मिति प्रागुक्तनिष्कर्षविरोधादित्याहुः।

Satishji's सूत्र-सूचिः

TBD.