TBD.
सङ्ख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेर्यो दन्तशब्दः, तस्य दतृ इत्ययम् आदेशो भवति समासान्तः वयसि गम्यमाने। ऋकार उगित्कार्यार्थः। द्वौ दन्तौ अस्य द्विदन्। त्रिदन्। चतुर्दन्। शोभना दन्ताः अस्य समस्ताः जाताः सुदन् कुमारः। वयसि इति किम्? द्वैदन्तः कुञ्जरः। सुदन्तो दाक्षिणात्यः।
TBD.
–
870 वयसि दन्तस्य दतृ। द्विदन्निति। द्वौ दन्तौ यस्येति विग्रहः। शिशुत्वं गम्यते। दन्तस्य दत्रादेशः। ऋकार इत्। उगित्त्वान्नुम्। सुलोपः। संयोगान्तलोपः। तस्याऽसिद्धत्वादुपधादीर्घो न। चतुर्दन्निति। चत्वारा दन्ता यस्येति विग्रहः। दत्रादि पूर्ववत्। षोडन्निति। षट् दन्ता यस्येति विग्रहः। दत्रादि पूर्ववत्। `षष उत्त्व'मिति ष्टुत्वोत्त्वे। सुदन्निति। सु=शोभना दन्ताः समस्ता जाता यस्येति विग्रहः। वयाविशेषावगतये समस्तस्य निवेशः। सुदतीति। शोभना दन्ताः समस्ता यस्या इति विग्रहः। दत्रादेशः। `उगितश्चे'ति ङीप्। द्विदन्तः करीति। हस्तिनः सर्वदा द्विदन्तत्वेन वयोविशेषानवगतिरिति भावः।
757 द्विदन्निति। द्वौ दन्तावस्य जातौ। शिशुत्वावस्था त्विह गम्यते। `उगिदचा'मिति नुम्। संयोगान्तलोपस्याऽसिद्धत्वान्नलोपो न। षोडन्निति। `षष उत्वं दतृदशधे'त्यने नोत्वष्ठुत्वे। सुदतीति। `उगितश्चे'ति ङीप्।
TBD.