Table of Contents

<<5-4-131 —- 5-4-133>>

5-4-132 धनुषश् च

प्रथमावृत्तिः

TBD.

काशिका

धनुःशब्दान्तस्य बहुव्रीहेः अनङादेशो भवति समासान्तः। शार्ङ्गं धनुरस्य शार्ङ्गधन्वा। गाण्डीवधन्वा। पुष्पधन्वा। अधिज्यधन्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

861 धनुषश्च। `ऊधसोऽनङि'ति पूर्वसूत्रं स्त्रीप्रत्ययादिकारे व्याख्यातं, तस्मादनङित्यनुवर्तते। तदाह–अनङादेश इति। ङित्त्वादन्तादेश इति भावः। द्विधन्वेति। द्वे धनुषी यस्येति विग्रहः। समासे द्विधनुशब्दे सकारस्य अनङादेशः। ङकार इत्। अकार उच्चारणार्थः। उकारस्य यणिति भावः। शाङ्र्गधन्वेति। श्रृङ्गस्येदं शाङ्र्गं। `तस्येद'मित्यण्, तत् धनुर्यस्येति विग्रहः। समासे शाङ्र्गधनुःशब्दे सकारस्यानङ्, ङकार इत्, अकार उच्चारणार्थः। उकारस्य यणिति भावः। महिम्नःस्तवे `स्वलावण्याशंसाधृतधनुषमि'ति प्रयोगस्त्वार्षः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.