Table of Contents

<<5-4-129 —- 5-4-131>>

5-4-130 ऊर्ध्वाद् विभाषा

प्रथमावृत्तिः

TBD.

काशिका

ऊर्ध्वशब्दादुत्तरस्य जानुशब्दस्य विभाषा ज्ञुः इत्ययम् आदेशो भवति। ऊर्ध्वे जानुनी अस्य ऊर्ध्वजानुः, ऊर्ध्वज्ञुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

860 ऊध्र्वाद्विभाषा। ऊध्र्वशब्दात् परो यो जानुशब्दस्तस्य ज्ञुरादेशो वा स्यात्, बहुव्रीहावित्यर्थः। ऊध्र्वज्ञुरिति। ऊर्ध्वे जानुनी यस्येति विग्रहः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.