Table of Contents

<<5-4-128 —- 5-4-130>>

5-4-129 प्रसंभ्यां जानुनोर् ज्ञुः

प्रथमावृत्तिः

TBD.

काशिका

प्र सम् इत्येताभ्याम् उत्तरस्य जानुशब्दस्य ज्ञुरादेशो भवति समासान्तो बहुव्रीहौ। प्रकृष्टे जानुनी अस्य प्रज्ञुः। संज्ञौः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

859 प्रसंभ्यां। जानुशब्दयोरिति।`प्र' `सम्' इति पूर्वपदद्वित्वादुत्तरपदभूतजानुशब्दस्यापि द्वित्वं बोध्यम्। `जानुन' इत्युक्ते तु `प्रत्ययः, परश्चे'त्यधिकारात् पञ्चम्यन्तत्वसंभवाज्ज्ञोः प्रत्ययत्वं च सम्भाव्येत। तस्यादेशत्वसिद्धये षष्ठीद्विवचननिर्देशः। तदाह–ज्ञुरादेश इति। प्रज्ञुरिति। `प्रादिभ्यो धातुजस्ये'ति समासः। संज्ञुरिति। सङ्गते जानुनी यस्येति विग्रहः।

तत्त्वबोधिनी

750 प्रसंभ्याम्। जानुशब्दस्यैकत्वेऽप्युपपजनिबन्धनं द्वित्वमाश्रित्य जानुनोरिति द्विचननिर्देशः, तत्फलं तु स्थानषष्ठीत्वस्फुटीकरणम्। `जानुनः'इत्युक्ते तु किमियं पञ्चमी, प्रत्ययाधिकारात् ज्ञुरपु प्रत्यय इत्येवं सन्देहः स्यात्, तदेततद्ध्वनयन्नाह—जानुशब्दयोर्ज्ञुरादेश इति।

Satishji's सूत्र-सूचिः

TBD.