Table of Contents

<<5-4-127 —- 5-4-129>>

5-4-128 द्विदण्ड्यादिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

द्विदण्ड्यादयः शब्दाः इच् प्रत्ययान्ताः साधवो भवन्ति। द्विदण्ड्यादिभ्यः इति तादर्थ्ये एषा चतुर्थी, न पञ्चमी। द्विदण्ड्याद्यर्थम् इच् प्रत्ययो भवति तथा भवति यथा द्विदण्ड्यादयः सिद्द्यन्ति इत्यर्थः। समुदायनिपातनाच् च अर्थविशेषे ऽवरुध्यन्ते। द्विदण्डि प्रहरति। द्विमुसलि प्रहरति। इह न भवति, द्विदण्डा शाला इति। बहुव्रीह्यधिकारे ऽपि तत्पुरुषात् क्वचिद् विधानम् इच्छन्ति। निकुच्य कर्णौ धावति निकुच्यकर्णि धावति। प्रोह्य पादौ हस्तिनं वाहयति प्रोद्यपादि हस्तिनं वाहयति। मयूरव्यंसकादित्वात् समासः। द्विदण्डि। द्विमुसलि। उभाञ्जलि। उभयाञ्जलि। उभाकर्णि। उभयाकर्णि। उभादन्ति। उभयादन्ति। उभाहस्ति। उभयाहस्ति। उभापाणि। उभयापाणि। उभाबाहु। उभयाबाहु। एकपदि। प्रोह्यपदि। आढ्यपदि। सपति। निकुच्यकर्णि। संहतपुच्छि। उभाबाहु, उभयाबाहु इति निपातनादिच्प्रत्ययलोपः। प्रत्ययलक्षणेन अव्ययीभावसंज्ञा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

858 द्विदण्ड\उfffदादिभ्यश्च। द्विदण्ड\उfffदादिषु इदन्तानामेव निपातनात्तेभ्यः परत्वेन इच्प्रत्ययविधिरनर्थक इत्याशङ्क्य नेयं पञ्चमीत्याह–तादर्थ्ये चतुर्थ्येषेति। द्वौ दण्डाविति। कर्मव्यतिहाराभावेऽपि वैरूप्येऽपि बहुव्रीहिरिच्प्रत्ययश्च निपात्यते। द्विदण्डीति। दण्डादण्डीतिवत् प्रक्रिया। कर्मव्यतिहाराऽभावात् पूर्वपदस्य न दीर्घ इति विशेषः। द्विमुसलीति। द्वे मुसले यस्मिन् प्रहरणे इति विग्रहः। उभाहस्ति। उभयाहस्तीति। उभौ हस्तौ यस्मिन् प्रहरण इति विग्रहः। `उभयोऽन्यत्रे'ति नित्यमयचि प्राप्ते निपातनेन विकल्प्यते। कर्मव्यतिहाराभावेऽपि दीर्घश्च।

तत्त्वबोधिनी

749 द्विदण्डीति। समुदायनिपातनस्य विषयविशेषपरिग्रहार्थत्वाद्द्विदण्डा शालेत्यत्र त्विज् न भवति। उभाहस्तीत्यादि। इह निपातनादेवाऽयचः पाक्षिकत्वम्।

Satishji's सूत्र-सूचिः

TBD.