Table of Contents

<<5-4-120 —- 5-4-122>>

5-4-121 नञ्दुःसुभ्यो हलिसक्थ्योरन्यारस्याम्

प्रथमावृत्तिः

TBD.

काशिका

नञ् दुस् सु इत्येतेभ्यः परौ यौ हलिसक्थिशब्दौ तदन्तद् बहुव्रीहेरन्यतरस्याम् अच् प्रत्ययो भवति समासान्तः। अविद्यमाना हलिरस्य अहलः, अहलिः। दुर्हलः, दुर्हलिः। सुहलः, सुहलिः। अविद्यमानं सक्थि अस्य असक्थः, असक्थिः। दुःसक्थः, दुःसक्थिः। सुसक्थः, सुसक्थिः। हलिशक्त्योः इति केचित् पठन्ति। अविद्यमाना शक्तिः अस्य अशक्तः, अशक्तिः। विरूपा शक्तिः अस्य दुःशक्तः, दुःशक्तः, दुःशक्तिः। शोभना शक्तिः अस्य सुशक्तः, सुशक्तिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

852 नञ्दुःसुभ्यः। शेषरपूरणेन सूत्रं व्याचष्टे–अच्स्यादिति। अहलः, अहलिरिति। अविद्यमानो हलिर्यस्येति विग्रहः। हलिशब्द इदन्तो हलपर्यायः। तदन्तादचि `यस्येति चे'तीकारलोपे तदभावे च रूपम्। यद्यपि हलशब्देन हलिशब्देन च रूपद्वयं सिद्धन्तथापि अनुक्तसमासान्तत्वाऽभावादत्र न कप्। असक्थः, असक्थिरिति। अविद्यमानं सक्थि यस्येति विग्रहः। एवं दुःसुभ्यामिति। दुर्हलः, दुर्हलिः। दुःसक्थ, दुःसक्थिः। शक्त्योरिति। `हलिशक्त्योः' इति केचित्पाणिनीया पठन्तीत्यर्थः। केचिच्छिष्याः पाणिनिना तता पाठिता इति वदन्तीति भावः।

तत्त्वबोधिनी

744 नञ्दुःसुभ्यो। नन्वत्र हलिग्रहणं व्यर्थं, हलशब्दमादायाऽहल इति प्रयोगसम्भवात्। न च मदद्धलं हलिः, तद्रहितोऽहलिस्तत्रैवार्थेऽहल इति प्रयोगार्थं तद्ग्रहणमिति वाच्यम्, अहल इत्यत्र पूर्वपदप्रकृतिस्वरः स्यादिति सङ्क्यं, `नञ्सुभ्या'मित्यनेनान्तोदात्तत्वविधानात्। अत्राहुः—शैषिकस्य कपो निवृत्त्यर्थं, `दुर्हलः' इत्यत्रान्तोदात्तत्वार्थं च तदिति। शक्त्योरिति। आचार्येण केचिच्छात्रा `हलिशक्त्यो'रिति पाठिता इति भावः।

Satishji's सूत्र-सूचिः

TBD.