TBD.
नञ्दुस्सुभ्यः इत्येव। नञ् दुस् सु इत्येतेभ्यः परौ यौ प्रजामेधाशब्दौ तदन्ताद् बहुव्रीहेः नित्यम् असिच् प्रत्ययो भवति समासान्तः। अविद्यमाना प्रजा अस्य अप्रजाः। दुष्प्रजाः। सुप्रजाः। अविद्यमाना मेधा यस्य अमेधाः। दुर्मेधाः। सुमेधाः। नित्यग्रहणं किम्, यावता पूर्वसूत्रे ऽन्यतरस्याम् ग्रहणं न एव स्वर्यते? एवं तर्हि नित्यग्रहणादन्यत्र अपि भवति इति सूच्यते। श्रोत्रियस्य इव ते राजन् मन्दकस्याल्पमेधसः। अनुवाकहता बुद्धिर् न एषा तत्त्वार्थदर्शिनी।
TBD.
–
853 नित्यमसिच्। नञ्दुःसुभ्य इत्येवेति। पूर्वसूत्रादनुवर्तत इति भावः। एतेभ्यः पराभ्यां प्रजामेधाशब्दाभ्यां नित्यमसिच्समासान्त स्यात्, स तद्धित इत्यर्थः। असिचस्चकार इत्। इकार उच्चारणार्थः। `अन्यतरस्या'मित्यनुवृत्तिनिवृत्त्यर्थं नित्यग्रहणम्। अस्वरितत्वादेव तदनुवृत्त्यभावे सिद्धे स्पष्टार्थमिति तत्त्वम्। अप्रजा इति। अविद्यमाना प्रजा यस्येति विग्रहः। `नञोऽस्त्यर्थाना'मिति समासः। असिचि `यस्येति चे'त्यकारलोपादप्रजस्शब्दात्सुबुत्पत्तिः। सौ तु `अत्वसन्तस्ये'ति दीर्घः। `हळ्ङ्या'बिति सुलोपः। यद्यप्यकारं विना सिचि विहितेऽपि सिद्धमिदन्तथापि सिच्यभत्वेन आकारलोपाऽभावादप्रजास्शब्दात्सुबुत्पत्तौ, प्रथमैकवचने `अप्रजा' इति रूपसिद्धावपि अप्रजासाविति न स्यात्। किंतु अप्रजासावित्यादि स्यात्। तस्मादकारोच्चारमं भत्वसंपादनार्थमावश्यकम्। दुष्प्रजा इति। दुर्गता प्रजा यस्येति विग्रहः। `प्रादिभ्यो धातुजस्ये'ति समासः। असिजादि पूर्ववत्। अमेधा इत्यादि।अविद्यमानां मेधा यस्येति विग्रहः। असिजादि पूर्ववत्। केचित्तु नित्यग्रहणमन्यतो विदानार्थं तेनाल्पमेधस इत्यादि सिध्यतीत्यप्याहुः।
745 नित्यमसिच्। अकारोच्चारणं भत्वसम्पादनार्थम्, ते नसुप्रजसावित्यादौ `यस्येति चे' त्यकारलोपः सिध्यति। अस्वरितत्वादेव अन्यतरस्याङ्ग्रहणा ननुवृत्तिसिद्धौ नित्यग्रहणमन्यतो विधानार्थम्। तेन `अल्पमेधस'इति सिध्यतीति वृत्तिकारादयः।
TBD.