TBD.
नदी पौर्णमासी आग्रहायणी इत्येवम् अन्तादव्ययीभावातन्यतरस्यां टच् प्रत्ययो भवति। नद्याः समीपम् उपनदम्, उपनदि। उपपौर्णमासम्, उपपौर्णमासि। उपाग्रहायणम्, उपाग्रहायणि।
TBD.
–
673 नदीपौर्णमासी। शेषपूरणेन सूत्रं व्याचष्टे-वा टजिति। `अन्यतरस्या'मिति `ट'जिति चानुवर्तत इति भावः। नदी पौर्णमासी आग्रहायणी-एतदन्तादव्ययीभावसमासाट्टज्वा स्यादिति यावत्। अत्र नदीसंज्ञकस्य न ग्रहणम्, पौर्णमास्याग्रहायणीग्रहणाल्लिङ्गात्। उपनदमिति। नद्याः समीपमित्यर्थः। सामीप्ये उपेत्यस्याव्ययीभावसमासः। टच्। `यस्येति च' इतीकारलोपः। उपनदशब्दात्सुप्। अम्भाव इति भावः। उपनदीति। टजभावे रूपम्। नपुंसकह्यस्वः। `अव्ययादाप्सुपः' इति लुक्। उपपौर्णमासमिति। पौर्णमास्याः समीपमित्यर्थः। टचि उपनदमितिवद्रूपम्। उपपौर्णमासीति। टजभावे रूपम्। एवम्–उपाग्रहायणम् उपाग्रहायणीति ज्ञेयम्। अग्रे हायनमस्याः। आग्रहायणी=मार्गशीर्षपौर्णमासी। अत ऊध्र्वं मकरायनप्रवृत्त्या उदगयनप्रवृत्तेः। उदगयनादिरेव हि संवत्सरस्यादिः। `अयन द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः' इति प्रसिद्धेः।
596 नदीपौर्ण। इह स्वरूपस्यैव ग्रहणं न संज्ञायाः, पौर्णमास्याग्रहायण्योः पृथग्ग्रहणात्। उपनदीति। टचभावे नपुंसकह्यस्वः। अत्र व्याचक्षते– `वृत्तिग्रन्थमनुरुध्येदं विकल्पकथनम्। परमार्थतस्तु नेहान्यतरस्यामित्यनुवर्तते। `बहुगणे'ति सूत्रस्थभाष्यविरोधात्। तत्र हि–नदीशब्देन नदीविशेषाणां गङ्गायमुनादीनां ग्रहणमाशङ्क्य शरत्प्रभृतिषु विपाट्शब्दपाठान्नेति समाहितम्। न चेदं भाष्यं `नदीपौर्णमासी'त्यत्र टचः पाक्षिकत्वे सङ्गच्छते,नित्यार्थतया तत्पाठस्योपपत्तेः। अतएव सेनकग्रहणमुत्तरत्राऽर्थवत्। कैयटस्तु व्यवस्थितविभाषामाश्रित्य वृत्तिग्रन्थं कथंचित्समर्थितवानिति।
TBD.