Table of Contents

<<5-4-108 —- 5-4-110>>

5-4-109 नपुंसकादन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

अनः इत्येव। नपुंसकग्रहणम् उत्तरपदविशेषणम्। अन्नन्तं यद् नपुंसकं तदन्तादव्ययीभावातन्यतरस्यां टच् प्रत्ययो भवति समासान्तः। पूर्वेण नित्ये प्राप्ते विकल्प्यते। प्रतिचर्मम्, प्रतिचर्म। उपचर्मम्, उपचर्म।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

923 अन्नन्तं यत् क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात्. उपचर्मम्. उपचर्म..

बालमनोरमा

672 नपुंसकादन्यतरस्याम्। `अन' इत्यनुवृत्तं नपुंसकस्य विशेषणं। तदन्तविधिः। अन्नन्तात्क्लीबादिति लब्धम्। तेनाव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते, तदन्तविधिः। तदाह–अन्नन्तादित्यादि। उपचर्मम् उपचर्मेति। चर्मणः समीपमित्यर्थः। सामीप्ये उपेत्यव्ययस्याव्ययीभावः। टचि टिलोपः। अम्भावः। टजभावे उपचर्मेति रूपम्।

तत्त्वबोधिनी

595 नपुंसकादन्य। नपुंसकग्रहणमन्नन्तस्य विशेषणं नाव्ययीभावस्य, अव्यभिचारादित्याह–अन्नन्तं यत्क्लीवमिति। अन्नन्तचेन चाव्ययीभावविशेषणात्तदन्तविधिरित्याह–तदन्तादिति। उपचर्ममिति। टचि टिलोपपोऽदन्तत्वादम्भावश्च। तत्त्व]।

Satishji's सूत्र-सूचिः

TBD.