TBD.
किम एकारान्तात् तिङन्तादव्ययेभ्यश्च यो विहितो घः स किमेत्तिङव्ययघः, तदन्तात् प्रातिपदिकातद्रव्यप्रकर्षे आमुप्रत्ययो भवति। यद्यपि द्रव्यस्य स्वतः प्रकर्षो न अस्ति, तथा अपि क्रियागुणस्थः प्रकर्षो यदा द्रव्ये उपचर्यते तदा ऽयं प्रतिषेधः। क्रियागुणयोरेव अयं प्रकर्षे प्रत्ययः। किंतराम्। किंतमाम्। पूर्वाह्णेतराम्। पूर्वाह्णेतमाम्। पचतितराम्। पचतितमाम्। उच्चैस्तराम्। उच्चैस्तमाम्। अद्रव्यप्रकर्षे इति किम्? उच्चैस्तरः। उच्चैस्तमः।
TBD.
1224 किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे. किन्तमाम्. प्राह्णेतमाम्. पचतिमाम्. उच्चैस्तमाम्. द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः..
845 द्वित्रिभ्यां। `षे'ति लुप्तप्रथमाकं पदम्। द्विमूद्र्ध इति। द्वौ मूर्धानौ यस्येति विग्रहः। त्रिमूर्ध इति। त्रयो मूर्धानो यस्येति विग्रहः। समासान्तः। `नस्तद्धिते' इति टिलोपः। षचि अनुवर्तमाने षग्रहणं चित्स्वरनिवृत्त्यर्थम्।
इत्यर्थः। नेता-नायकः। मृगो नेतेति। मृगः=मृगशीर्षम्। रात्रिनेता चन्द्रः। तद्योगान्नक्षत्रस्यापि बोध्यम्। मृगनेत्रा इति। मृगनेतृशब्दादप्, ञकारस्य यण्, रेफः, टाप्। पुष्यनेत्रा इति। पुष्टो नेता यासामिति विग्रहः।
1500 किमेत्। ओमोरुकारो यदि नुटा त्यज्येत तर्हि पचतितरामित्यादौ `ह्यस्वानद्यापः'इति नुटि `पचतितरणा'मिति स्यात्,यस्येतिलोपस्य परेण नुटा बाधात्। सिद्धान्ते तु `निरनुबन्धकग्रहणे न सानुबन्धकस्ये'ति परिभाषया नुड्विधौ नाऽस्य ग्रहणम्।
TBD.