Table of Contents

<<5-3-119 —- 5-4-2>>

5-4-1 पादशतस्य सङ्ख्यादेर् वीप्सायां वुन् लोपश् च

प्रथमावृत्तिः

TBD.

काशिका

पादशतान्तस्य सङ्ख्यादेः प्रातिपदिकस्य वीप्सायां द्योत्यायां वुन् प्रत्ययो भवति। तत्सन्नियोगेन चान्तस्य लोपो भवति। यस्य इति लोपेन एव सिद्धे पुनर् वचनम् अनैमित्तिकार्थम्। यस्य इति लोपः परनिमित्तकः। तस्य स्थानिवद्भावात् पादः पत् 6-4-130 इति पद्भावो न स्यात्। अस्य त्वनैमित्तिकत्वान् न स्थानिवत्त्वम्। द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति। द्वे द्वे शते ददाति द्विशतिकां ददाति। तद्धितार्थ इति समासः। ततः प्रत्ययः। स्वभावाच् च वुन्प्रत्ययान्तं स्त्रियाम् एव वर्तते। पादशतस्य इति किम्? द्वौ द्वौ माषौ ददाति। सङ्ख्यादेः इति किम्? पादं पादं ददाति। वीप्सायाम् इति किम्? द्वौ पादौ ददाति। द्वे शते ददाति। पादशतग्रहणम् अनर्थकम्। अन्यत्र अपि दर्शनात्। द्विमोदकिकां ददाति त्रिमोदकिकां ददाति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अथ पञ्चमस्य चतुर्थपादः-पादशतस्य। पादश्चशतं चेति समाहारद्वन्द्वाल्लोपापेक्षया षष्ठी। वुन्प्रत्ययापेक्षया तु सा पञ्चम्यर्थे। सङ्ख्यावचकशब्दपूर्वकात्पादशब्दाच्च वीप्साविशिष्टार्थवृत्तेः स्वार्ते वुन्प्रत्ययः स्यात्, प्रकृतेरन्त्यस्य लोपश्चेत्यर्थः। ननु वुनोऽकादेशे सति `यस्येति चे'त्येव लोपसिद्धेरिह लोपविधिव्र्यर्थ इत्यत आह–अनैमित्तिकत्वार्थमिति। `यस्येति चे'ति लोपस्य परनिमित्तकतया तस्य `अचः परस्मिन्' इति स्थानिवत्त्वा `पादः प'दिति पदादेशो न स्यात्। अस्य तु लोपस्य परनिमित्तकत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्तेः पद्भावो निर्बाध इति भावः। तद्धितार्थ इति। नच वीप्सायाः प्रकृत्यर्थविशेषणतया वुनोऽर्थाऽभावात्कथमिह`तद्धितार्थ' इति समास इति वाच्यं, वुनो द्योतकतया द्योत्यार्थेनैवार्थवत्त्वात्। वुन्नयं स्त्रियामेवेति। स्वभावादिति भावः। द्विशति कामिति। द्वे द्वे शते ददातीति विग्रहः।

पादशतभिन्नव्यावृत्त्यर्थत्वादित्यत आह–अन्यत्रापि दर्शनादिति। तदुदाह्मत्य दर्शयति–द्विमोदकिकामिति। द्वौ द्वौ मोदकौ ददातीति विग्रहः।

तत्त्वबोधिनी

1542 पादशतस्य सङ्ख्यादेः। पादशतस्य किम्?। द्वौ द्वौ माषौ ददाति। संख्यादेरिति किम्?। पादं पादं ददाति। वीप्सीयामिति किम्?। द्वौ पादौ ददाति। अनैमित्तिकत्वार्थमिति। निमितिते भवो नैमित्तिकः। अध्यात्मादित्वाट्ठञ्। तद्धितार्थ इति। समास इति। यद्यपि प्रकृत्युपाधिवीप्सा, तथापि वुनो द्योत्येति तद्धितार्थो भवत्येवेति भावः। ददातीति। समर्पणमात्रमिह ददातेरर्थः, न तु परस्वत्वापादनपर्यन्तम्। तथात्वे हि उत्तरसूत्रविषयत्वं स्यात्। केचित्तु व्यवसृजेर्धातोः प्रयोगे सत्येव उत्तरसूत्रस्य प्रवृत्तिमाहुः। अन्यत्रापि दर्शनादिति। `द्वौ द्वौ माषौ ददाती'त्यादौ त्वनभिधानान्नतिप्रसङ्ग इति भावः।

Satishji's सूत्र-सूचिः

TBD.