Table of Contents

<<5-3-118 —- 5-4-1>>

5-3-119 ञ्यादयस् तद्राजाः

प्रथमावृत्तिः

TBD.

काशिका

पूगाञ् ञ्यो ऽग्रामणीपूर्वात् 5-3-112 इत्यतः प्रभृति ये प्रत्ययाः, ते तद्राजसंज्ञा भवन्ति। तथा च एव उदाहृतम्। तद्राजप्रदेशाः तद्राजस्य बहुसु इत्येवम् आदयः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य तृतीयः पादःपञ्चमाध्यायस्य चतुर्थः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

ञ्यादयस्तद्राजाः। लोहितध्वजा इति। `पूगा'दिति विहितस्य ञ्यस्य तद्वाजत्वाद्बहुत्वे लुक्। कपोतपाकाः कौञ्जायनाः ब्राआध्नायना इति। `व्रातच्फञो'रिति विहितस्य ञ्यस्य लुक्। इत्यादीति। क्षौद्रक्यौ, क्षुद्रकाः। `आयुधजीवी'ति ञ्यटो लुक्। वार्केण्यः, वार्केण्यौ, वृकाः। वृकाट्टेण्यणो लुक्। दामनीयः, दीमनीयौ, दामनयः, कौण्डोपरथाः इत्यादौ `दामन्यादित्रिगर्तषष्ठा'दिति छस्य लुक्। पार्शवौः, पार्शव, पर्शवः, यौधेयाः इत्यत्र पर्\उfffदाआदियौधेयाद्यणञोर्लुक्। आभिजित्यः आभिजित्यौ, अभिजितः, विदभृत इत्यादौ `अभिजिद्विदभृ'दित्यादिविहितस्य यञो लुगिति भावः। इति पञ्चमस्य तृतीयपादः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.