Table of Contents

<<5-3-90 —- 5-3-92>>

5-3-91 वत्सौक्षाश्वर्षभेभ्यश् च तनुत्वे

प्रथमावृत्तिः

TBD.

काशिका

ह्रस्वे इति निवृत्तम्। वत्स उक्षनश्व ऋषभ इत्येतेभ्यः तनुत्वे द्योत्ये ष्टरच्प्रत्ययो भवति। यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः तस्य तनुत्वे प्रत्ययः। वत्सतरः। उक्षतरः। अश्वतरः। ऋषभतरः। प्रथमवया वत्सः, तस्य तनुत्वं द्वितीयवयःप्राप्तिः। तरुण उक्षा, तस्य तनुत्वं तृतीयवयःप्राप्तिः। अश्वेन अश्वायाम् उत्पन्नो ऽस्वः, तस्य तनुत्वम् अन्यपितृकता। अनुड्वानृषभः, तस्य तनुत्वं भारवहने मन्दशक्तिता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

वत्सोक्ष। ह्यस्व इति निवृत्तम्। वत्स, उक्षन्, अ\उfffदा, ऋषभ– एभ्यस्तनुत्वविशिष्टवृत्तिभ्यः ष्टरच्?प्रत्ययः स्यादित्यर्थः। तनुत्वं– न्यूनत्वम्। वत्सः-प्रथमवयाः। वयसश्च प्रथमस्य तनुत्वम्–उत्तर वयः प्राप्त्या ज्ञेयम्। तदाह–द्वितीयं वयःप्राप्त इति। उक्षतर इति। उक्षा–तरुणो बलीवर्दः। तारूण्यस्य तनुत्वं तृतीयवयः प्राप्त्या ज्ञेयम्। अ\उfffदातर इति। गर्दमेन अ\उfffदाआयामुत्पादितः। अ\उfffदातरः–अ\उfffदातरत्वं च अ\उfffदात्वापेक्षया न्यूनमेव। ऋषभतर इति। ऋषभो-भारस्य वोढा तस्य तनुत्वं भारोद्वहने मन्दशक्तिता, तद्वानित्यर्थः। तनुः कृशो वत्सो वत्सतर इति कुतो नेत्यत आह– प्रवृत्तिनिमित्ततनुत्वे एवायमिति। एतच्च भाष्ये स्पष्टम्।

तत्त्वबोधिनी

1525 वत्सोक्षा\उfffदा। तनुत्वं=न्यूनता। सा च प्रवृत्तिनिमित्तस्य, प्रत्यासत्तेः। क्वचित्तु तत्सहचरितधर्मान्तराणाम्। तत्र वत्सः–प्रथमवयाः। वयसश्च प्रथमस्य न्यूनत्वं नाम वयोऽन्तरप्राप्तिः। तदाह—द्वितीयमिति। तरुण उक्षा। तारुण्यस्य चतनुत्वं तृतीयवयःप्राप्तिः। अ\उfffदाआयाम\उfffदाआदुत्पन्नोऽ\उfffदाः। अ\उfffदात्वं च जातिः। तत्सहचरितस्याऽ\उfffदाआयाम\उfffदाआदुत्पन्नत्वधर्मस्यन्यूनत्वमन्यपितृकता। तथा च गर्दभेनाऽशावायामुत्पादितोऽ\उfffदातरः। ऋषभो भावरस्य वोढा। तस्य तनुत्वं बारोद्वहने मन्दशक्तिता। तद्वांस्तु ऋषभतरः।

Satishji's सूत्र-सूचिः

TBD.