TBD.
किम् यत् ततित्येतेभ्यः प्रातिपदिकेभ्य द्वयोरेकस्य निर्धारणे डतरच्प्रत्ययो भवति। निर्धार्यमाणवाचिभ्यः स्वार्थे प्रत्ययः। जात्या, क्रियया, गुनेन, संज्ञया वा समुदायादेकदेशस्य पृथक्करणं निर्धारणम्। कतरो भवतोः कठः। कतरो भवतोः कारकः। कतरो भवतोः पटुः। कतरो भवतोर् देवदत्तः। यतरो भवतोः कारकः। यतरो भवतोः पतुः। यतरो भवतोर्देवदत्तः, ततर आगच्छतु। महाविभाषया चात्र प्रत्ययो विकल्प्यते। को भवतोर् देवदत्तः, स आगच्छतु। निर्धारणे इति विसयसप्तमीनिर्देशः। द्वयोः इति समुदायान् निर्धारणविभक्तिः। एकस्य इति निर्देशः निर्धर्यमाणनिर्देशः।
TBD.
1239 अनयोः कतरो वैष्णवः. यतरः. ततरः..
किंयत्तदो निर्धारणे। किम्, यत्, तत् एषां समाहारद्वन्द्वात्पञ्चमी। द्वयोरेकस्य निर्धारणे गम्ये निर्धार्यमाणवाचिभ्यः किमादिभ्यो डतरच् स्यादित्यर्थः। अनयोः कतरो वैष्णव इति। को वैष्णव इत्यर्थः। अत्र वैष्णवत्वगुणेन कुंशब्दार्थ इदमर्थाभ्यां निर्धार्यते। अतः किंशब्दाड्डतरचि डित्त्वाट्टिलोपे `कतर' इति भवति। एवं यच्छशब्दात्, तच्छशब्दाच्च डतरचि टिलोपे यतरः ततर इति भवति। निर्धार्यमाणवाचिभ्य इति किम् ?। कयोरन्यतरो देवदत्तः, ययोरन्यतरः, तयोरन्यतर इत्यत्र किमादिभ्यो न भवति।
1526 किंयत्तदो। कतरो वैष्णव इति। गुणेन निर्धारणमिदम्। क्रियासंज्ञाभ्यां निर्धारणे ति `कतरोऽध्यापकः' `कतरो देवदत्त'इत्यादि ज्ञेयम्। ननु द्वयोरेकस्य निर्धरणे डतरच्चेद्भवति, तर्हि `कयोरन्यतरो देवदत्तः' `ययोरन्यतरः' `तयोरन्यतरः'इत्यत्रापि प्राप्नोति। अत्राहुः—निर्धार्यमाणवाचिभ्य एवायं प्रत्ययोऽभिधान स्वाभाव्यात्, तेनात्र नातिप्रसङ्ग इति। एकस्येति किम्?। `द्वयो'रिति कर्मणि षष्ठी माभूत्। तथाहि सति `अस्मिन् सङ्घे कौ देवदत्तयज्ञदत्तौ'इत्यादावेव स्यात्।
TBD.