Table of Contents

<<5-3-88 —- 5-3-90>>

5-3-89 कुत्वा डुपच्

प्रथमावृत्तिः

TBD.

काशिका

ह्रस्वे इत्येव। कुतूशब्दाद् ह्रस्वत्वे द्योत्ये दुपच्प्रत्ययो भवति। कस्य अपवादः। ह्रस्वा कुटूः कुतुपम्। चर्मम् अयं स्नेहभाजनम् उच्यते। कुतूः इत्यावपनस्याख्या।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

कुत्वा डुपच्। कुतुप इति। कुतूशब्दात् डुपचि ङित्त्वाट्टिलोपः। तत्रापि कुटीरादिवत्स्तीर्तवमपहाय पुंस्त्वमेव। तत्राऽमरकोशषमपि प्रमाणयति–कुतूः कृत्तिस्नेहेति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.