Table of Contents

<<5-3-87 —- 5-3-89>>

5-3-88 कुटीशमीशुण्डाभ्यो रः

प्रथमावृत्तिः

TBD.

काशिका

ह्रस्वे इत्येव। संज्ञाग्रहणं न अनुवर्तते। सामान्येन विधानम्। कुटीशमीशुण्डाभ्यो ह्रस्वार्थे द्योत्ये रः प्रत्ययो भवति। कस्य अपवादः। ह्रस्वा कुटी कुटीरः। शमीरः। शुण्डारः। स्वार्थिकत्वे ऽपि पुंलिङ्गता, लोकाश्रयत्वाल् लिङ्गस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

कुटीशमी। ह्यस्व इत्येव कुटीर इति। `स्वार्थिकाः क्वचित्प्रकृतितो लिह्गवचनान्यतिवर्तन्ते' इति पुंस्त्वम्। एवं शमीरः शुण्डार इत्यपि। ह्यस्वा शमी, शुण्डा चेत्यर्थः।

तत्त्वबोधिनी

1524 कुटीर इति। `स्वार्थिकाः प्रकृतितो लिङ्गमतिवर्तन्ते'इति पुंलिङ्गताऽत्र सङ्गच्छते।

Satishji's सूत्र-सूचिः

TBD.