Table of Contents

<<5-3-7 —- 5-3-9>>

5-3-8 तसेश् च

प्रथमावृत्तिः

TBD.

काशिका

प्रतियोगे पञ्चम्यास् तसिः 5-4-44) , अपादाने च अहीयरुहोः (*5,4.45 इति वक्ष्यति। तस्य तसेः किंसर्वनामबहुभ्यः परस्य तसिलादेशो भवति। कुत आगतः। यतः। ततः। बहुत आगतः। तसेस् तसिल्वचनं स्वरार्थं विभक्त्यर्थं च।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1930 तसेश्च। परस्य तसेरिति। `प्रतियोगे पञ्चम्यास्तसिः' `अपादाने चाहीयरुहो'रिति वक्ष्यमाणस्य तसेरित्यर्थः। ननु तसेस्तसिल्किमर्थमित्यत आह–स्वराथमिति। लित्स्वरार्थमित्यर्थः। विभक्त्यर्थमिति। विभक्तिनिमित्तकत्यदाद्यत्वार्थमित्यर्थः। अन्यथा परत्वात्तसौ कृते तस्य अप्राग्दिशीयत्वाद्विभक्तित्वाऽभावात्त्यदाद्यत्वादिकं न स्यादित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.