Table of Contents

<<5-3-76 —- 5-3-78>>

5-3-77 नीतौ च तद्युक्तात्

प्रथमावृत्तिः

TBD.

काशिका

सामदानादिरुपायो नीतिः। नीतौ च गम्यमानायां तद्युक्तादनुकम्पायुक्ताद् यथाविहितं प्रत्ययो भवति। हन्त ते धानकाः। हन्त ते तिलकाः। एहकि। अद्धकि। परस्य अनुकम्पामात्रोपादानेनाराधयति। पूर्वेण प्रत्यासन्नानुकम्पासम्बन्धातनुकम्प्यमानादेव प्रत्ययो विहितः। संप्रति व्यवहितादपि यथा स्यादिति वचनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

नीतौ च तद्युक्तात्। सामदानादीति। आदिना भेददण्डयोग्र्रहणम्। तद्युक्तादित्येतद्व्याचष्टे–अनुकम्पायुक्तादिति। अव्ययसर्वनाम्नां टेः प्रागिति चानुवर्तते, `कस्य च दः' इति च। हन्त ते धानका इति। `दास्यन्ते' इति शेषः। `हन्ते'त्यव्ययमनुकम्पाद्योतकम्। `हन्त हर्षेऽनुकम्पाया'मित्यमरः। `हन्ते'त्यदन्तम्। `हे पुत्रे'ति शेषः। अनुकम्पायुक्ता धाना इत्यर्थः। धानाशब्दात्कप्रत्यये `केऽणः' इति ह्यस्वे कान्ताट्ठापि `अबाषितपुंस्काच्चे'ति विकल्पात्पक्षे इत्त्वाऽभावः। एहकीति। `एही'ति तिङन्तस्य टेः प्रागकच्। `अव्ययसर्वनाम्ना'मित्यत्र तिङस्चेत्यनुवृत्तेरिति भावः। अद्धकीति। `अद्धी'ति तिङन्तस्य टेः प्रागकच्। पूर्वेणेति। अनुकम्पायास्तद्विषयत्वादिति भावः। परम्परासम्बन्धे।ञपीति। पुत्रः साक्षादनुकम्प्यः, तद्द्वारा धाना अनुकम्पायुक्ता इति भावः।

तत्त्वबोधिनी

1517 नीतौ च तद्युक्तात्। अनुकम्पायुक्तादिति। यद्यपि पुत्रादिरेव साक्षादमुकम्पायुक्तो न तु धानादिस्तथापि तद्द्वारा धानादीनामप्यस्त्यनुकम्पासंबन्ध इति भावः। धानका इति। `धाना'शब्दः स्त्रीलिङ्गः। ततः कः। `केऽणः'इति ह्यस्वः। कप्रत्ययान्ताट्टाप्। अत्र `प्रत्ययस्था'दितीत्त्वेन भाव्यम्। प्रायेण तु `धानका'इति पट\उfffद्ते। तत्र लिङ्गातिवृत्तिद्र्रष्टव्येति हरदत्तः। `कर्मव्यतिहारे णच्?स्त्रिया'मिति सिद्धे `णचः स्त्रियामञि'ति सूत्रे पुनः स्त्रीग्रहणेन ज्ञापितं `स्वार्थिकाः प्रकृतिलिङ्गं क्विचदतिवर्तन्ते'इति। तेन `धानका'इत्यत्र पुंस्त्वमिति भावः।

Satishji's सूत्र-सूचिः

TBD.