Table of Contents

<<5-3-68 —- 5-3-70>>

5-3-69 प्रकारवचने जातीयर्

प्रथमावृत्तिः

TBD.

काशिका

सामान्यस्य भेदको विशेषः प्रकारः, तस्य वचने। प्रकृत्यर्थेविशेषणम् च एतत्। सुबन्तात् प्रकारविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे जातीयर् प्रत्ययो भवति। प्रकारवति च अयं प्रत्ययः। थाल् पुनः प्रकारमात्र एव भवति। पटुप्रकारः पटुजातीयः। मृदुजातीयः। दर्शनीयजतीयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

प्रकारवचने। `प्रकारवचने था'लित्यतोऽस्य वैलक्षण्यमाह–प्रकारवति चायमिति। प्रकारवत्येवेत्यर्थः। थाल्लु प्रकारमात्रे इति। वस्तुतस्तु उभयमपि प्रकारवतीति न्याय्यम्, अविशेषात्। अन्यथा `तथे'त्यत्र स प्रकारः इत्येवार्थः स्यात्। नच किमादिभ्यो विशिष्य विहितेन थाला जातीयरो बाधात्तज्जातीय इत्याद्यसिद्धिरिति वाच्यं, `जात्यन्ताच्छ बन्धुनी'ति तज्जात्यादिशब्दाच्छप्रत्ययेनैव तज्जातीयादसिद्धेः। अत एव `यथाजातीयक' इत्यादिभाष्यप्रयोगाः सङ्गच्छन्ते। जयादित्यस्तु-अत्र प्रकारो भेदःस थाल्विधौ सामान्यस्य भेदको विशेषः प्रकार इत्याह- -वामनस्तु-सादृश्यं भेदश्चेत्युभयमपि प्रकार इत्याह।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.