Table of Contents

<<5-3-67 —- 5-3-69>>

5-3-68 विभाषा सुपो बहुच् परस्तात् तु

प्रथमावृत्तिः

TBD.

काशिका

ईषदसमाप्तिविशेष्टे ऽर्थे वर्तमानात् सुबन्तात् विभषा बहुच् प्रत्ययो भवति। स तु पुरस्तादेव भवति, न परतः। चित्करणम् अन्तोदात्तार्थम्। ईषदसमाप्तः पटुः बहुपटुः। बहुमृदुः। बहुगुडो द्राक्षा। विभाषावचनात् कल्पबादयो ऽपि भवन्ति। सुब्ग्रहणं तिङन्तान् मा भूदिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1234 ईषदसमाप्तिविशिष्टेर्ऽथे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव न तु परतः. ईषदूनः पटुर्बहुपटुः. पटुकल्पः. सुपः किम्? जयति कल्पम्..

बालमनोरमा

विभाषा। ईषदसमाप्तावित्यनुवर्तते। तदाह–ईषदसमाप्तिविशिष्ट इति। प्रागेवेति। सूत्रे तुशब्दोऽवधारणे इति भावः। बहुपटुरिति। पटुशब्दात्सुबन्तात्प्राग्बहुचि कृते प्रातिपदिकावयवत्वात्सुपो लुकि समुदायात्पुनः सुबुत्पत्तिः। नच तद्धितान्तत्वाऽभावात्समासत्वाऽभावाच्च पूर्वोत्पन्नसुब्विशिष्टस्य प्रातिपदिकत्वाऽभावात्कथमिह लुगिति वाच्यम्, `अर्थव'दित्यनेन तस्य प्रातिपदित्वसत्त्वात्। पटुरित्यस्य पूर्वोत्पन्नसुप्प्रत्ययान्तत्वेऽपि `बहुपटु'रिति समुदायस्य प्रत्ययान्तत्वाऽभावात्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्। नचैवं सति `कृत्तद्धिते'त्यत्र समासग्रहणं व्यर्थमिति वाच्यं, `पदघटितसङ्घातस्य चेत्प्रातिपदिकसंज्ञा तर्हि समासस्यैवे'ति नियमार्थत्वात्। नचैवं सति प्रकृते `बहुपटु'रिति समुदायस्य पूर्वोत्पन्नसुब्विशिष्टस्य कथं प्रातिपदिकत्वम्, असमासत्वादिति वाच्यं, `यत्र सङ्घाते पूर्वो भागः पदं तस्य चेत्प्रातिपदिकसंज्ञातर्हि समासस्यैवे'ति नियमशरीराभ्युपगमादिति प्रागुक्तं न विस्मर्तव्यम्। न च `समर्थाना'मिति सूत्रे वाग्रहणादेव सिद्धे विभाषाग्रहणं व्यर्थमिति वाच्यं, बहुजभावपक्षे पूर्वसूत्रविहितकल्पबाद्यर्थत्वात्। अन्यथा `महाविभाषया अपवादेन मुक्ते उत्सर्गस्य न प्रवृत्ति'रिति सिद्धान्ताद्बहुजभावे वाक्यमेव स्यात्। नच कल्पबादीनां बहुचा समानविषयकत्वान्निरवकाशत्वं शङ्क्यं, तेषां तिङन्ते सावकाशत्वादिति भाष्ये स्पष्टम्। एतदभिप्रेत्याह–पटुकल्प इति। ननु लुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तादिह सुब्ग्रहणं व्यर्थमिति पृच्छति–सुपः किमिति। `तिङ्श्चे'त्यनुवृत्तिनिवृत्त्यर्थं सुब्ग्रहणम्। नच अस्वरितत्वादेव तदनुवृत्तिर्न भविष्यति इति वाच्यम्, `अव्ययसर्वनाम्ना'मित्याद्युत्तरसूत्रे `तिङ्श्चे'त्यनुवृत्तेरावश्यकतया तस्य स्वरितत्वावश्यकत्वादिति भाष्ये स्पष्टम्। एतदभिप्रेत्याह–यजतिकल्पमिति। तुग्रहणं तु `स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तते, क्वचिदतिवर्तन्ते' इति ज्ञापनार्थमिति भाष्ये प्रपञ्चितम्।

तत्त्वबोधिनी

1513 विभाषा सुपः। सूत्रे `सुपः'इति षष्ठ\उfffद्न्तं, `षष्ठ\उfffद्तसर्थप्रत्ययेने'त्युक्तेः। सुबन्तादिति। एतच्च पञ्चम्यन्तं युक्तमेव, पुरस्ताच्छब्दपर्यायस्य प्रागितिशब्दस्य वृत्तौ प्रयुक्तत्वात्। प्रागित्यपकृष्यत इथि तु मनोरमायां स्थितम्। नस च सूत्रस्थपुरस्ताच्छब्दसमानार्थकप्राक्?शब्दयोगेऽपि `षष्ठ\उfffद्तसर्थे'ति षष्ठी स्यादिति वाच्यम्, `अन्यारा'दिति सूत्रेऽञ्चूत्तरपदस्य दिक्शब्दत्वेऽपि `षष्ठ\उfffद्तसर्थप्रत्ययेने'त्येतद्बाधनार्थं पृथग्ग्रहणमिति सिद्धान्तयित्वा `प्राक् प्रत्यग्वा ग्रामा'दित्युदाह्मतत्वात्। काशिकायां तु वृत्तपवि पुरस्ताच्छब्दः प्रयुक्तः, सुबन्तादिति च प्रयुक्तं। तदसमञ्जसमिति मत्वा हरदत्तेन कथंचितं समर्थितं—`ल्यब्लोप एषा पञ्चमी। एवंभूतं प्रकृतित्वेनाश्रित्येत्यर्थ'इति। प्रागेवेति। सौत्रस्तुशब्दोऽवधारणे वर्तत इति भावः। तेन च बहुजेव विकल्प्यते, न तु पूर्वत्वम्। तुशब्दाऽभावे तु प्राक्त्वं विकल्प्येत। तथा च पक्षे बहुच् परः स्यात्। भाष्यकारस्य मते तु नेदं तुशब्दस्य फलम्। तथाहि—`उद\उfffदिआतोऽन्यतरस्या'मित्यादौ प्रधानत्वात्प्रत्यय एव विकल्प्यते, न तु परत्वं, प्रत्यय एव हि परत्वविशिष्टो विधीयत इत#इ , विशेषणस्य गुणत्वात्, `गुणानां च परार्थत्वादि'ति न्यायात्। तद्वदिहापि विभाषाग्रहणेन बहुजेब संभन्त्स्यते, न पुरस्तादित्येतत्। तुशब्दस्य तु अवधारणार्थस्याऽन्यदेव प्रयोजनं `पुस्तादेव सर्वं यथा स्या'दिति। तेन लिङ्गसङ्ख्ये अपि प्राक् प्रत्ययोत्पत्तेः प्रकृत्यवस्थायां ये दृष्टे ते एव स्तः। बहुचः प्रयोगश्च प्राक् प्रकृतेरेव भवतीति। तेन `बहुगुडो द्राक्षा', `लघुर्बहुतृणं नरः'इत्यादौ प्रकृतिवल्लिङ्गमेव भवति, न त्विभिधेयवल्लिङ्गम्। ननु `स्वार्थिकाः प्रकृतितो लिङ्गवचनामि लभन्ते'इत्येव सिद्धमिति किमनेन तुशब्दग्रहणेनेति चेत्। अत्राहुः—एतदेव ज्ञापयति `ईषदसमाप्तौ ये स्वार्थिकास्तेष्वभिधेयवदेव लिङ्गवचने स्तः'इति। तेन `गुडकल्पा द्राक्षा' `शर्कराकल्पो गुड'इत्यादि सिद्धण्। प्रागिवात्कः। `सुपः'इत्यनुवर्तते, तेन तिङन्तात्को न।

Satishji's सूत्र-सूचिः

TBD.