Table of Contents

<<5-3-66 —- 5-3-68>>

5-3-67 ईषदसमाप्तौ कल्पब्देश्यदेशीयरः

प्रथमावृत्तिः

TBD.

काशिका

सम्पूर्णता पदार्थानां समाप्तिः। स्तोकेनासम्पूर्णता ईषदसमाप्तिः। प्रकृत्यर्थविशेषणं च एतत्। ईषदसमाप्तिविशेष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् कल्पप् देश्य देशीयरित्येते प्रत्यया भवन्ति। ईषदसमाप्तः पटुः पटुकल्पः, पटुदेश्यः, पटुदेशीयः। मृदुकल्पः, मृदुदेश्यः, मृदुदेशीयः। तिङश्च 5-3-56 इत्येव, पचतिकल्पम्। जल्पतिकल्पम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1233 ईषदूनो विद्वान् विद्वत्कल्पः. विद्वद्देश्यः. विद्वद्देशीयः. पचतिकल्पम्..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.