Table of Contents

<<5-3-63 —- 5-3-65>>

5-3-64 युवाल्पयोः कनन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

युवाल्पशब्दयोः कनित्ययम् आदेशो भवत्यन्यतरस्याम् अजद्योः परतः। तयोश्च सत्त्वं पूर्ववज् ज्ञेयम्। सर्वे इमे युवानः, अयम् एषम् अतिशयेन युव कनिष्ठः। द्वाविमौ युवानौ, अयम् अनयोरतिशयेन युवा कनीयान्। अयम् अस्मात् कनीयान्। यविष्ठः, यवीयानिति वा। सर्वे इमे ऽल्पाः, अयम् एषाम् अतिशयेन अल्पः कनिष्ठः। उभाविमावल्पौ, अय्म् अनयोरतिशयेन अल्पः कनीयान्। अयम् अस्मात् कनीयान्। अल्पिष्ठः, अल्पीयानिति वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

युवाल्पयोः। इष्ठेयसोरिति। `अजादी' इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः। कनिष्ठः कनीयानिति। अयमनयोरतिशयेन युवा अल्पो वेत्यर्थः। पक्षे यविष्ठ इति। युवन्शब्दादिष्ठनि `स्थूलदूरे'ति वनो लोपे उकारस्य गुणेऽवादेशे रूपम्। अल्पिष्ठ इति। अल्पशब्दादिष्ठनि टिलोपः। इत्यादीति। यवीयान्, अल्पीयानिति रूपद्वयमादिपदग्राह्रम्।

तत्त्वबोधिनी

1510 युवाल्पयोः `युवे'ति स्वरूपग्रहणं , न तु युवापत्यस्य, अल्पसाहचर्याव्द्याख्यानाच्च। `अजादी'इत्यनुवर्तनादरजाद्योरेव परयोर्न तु तरप्तमपोरित्याशयेन व्याचष्टे–इष्ठेयसोरिति।

Satishji's सूत्र-सूचिः

TBD.