Table of Contents

<<5-3-62 —- 5-3-64>>

5-3-63 अन्तिकबाढयोर् नेदसाधौ

प्रथमावृत्तिः

TBD.

काशिका

अन्तिकबाढयोः यथासङ्ख्यं नेद साध इत्येतावादेशौ भवतो ऽजाद्योः परतः। तयोश्च सत्त्वं पूर्ववद् विज्ञेयम्। निमित्तभूतयोर् यथासङ्ख्यम् अत्र एष्यते सर्वाणीमान्यन्तिकानि, इदमेषामतिशयेन अन्तिकम् नेदिष्ठम्। उभे इमे अन्तिके, इदम् अनयोरतिशयेन अन्तिकं नेदीयः। इदम् अस्मान् नेदियः। सर्वे इमे बाढमधीयते, अयम् एषाम् अतिशयेन बाढम् अधीते सधिष्ठः। उभाविमौ बाढम् अधीयाते, अयम् अनयोरतिशयेन बाढम् अधीते साधीयः। अयम् अस्मात् साधीयो ऽधीते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अन्तिकबाढयोः अजाद्योरिति। शेषपूरणमिदम्। अन्तिक, बाढ अनयोरिष्ठेयसुनोः परतः `नेद' `साध' एतावादेशौ स्त इत्यर्थः। नेदिष्ठः नेदीयानिति। अयमनयोरतिशयेनान्तिक इत्यर्थः। साधिष्ठः साधीयनिति। अयमनयोरतिशयेन बाढ इत्यर्थः। बाढो–भृशः। `भृशप्रतिज्ञयोर्बाढ'मित्यमरः। `अतिवेलभृशाऽत्यर्थातिमात्रोद्गाढनिर्भर'मिति च।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.