TBD.
विनो मतुपश्च लुग् भवति अजाद्योः प्रत्यययोः परतः। इदम् एव वचनं ज्ञापकम् अजादिसद्भावस्य। सर्वे इमे स्रग्विणः, अयम् एषाम् अतिशयेन स्रग्वी स्रजिष्ठः। उभाविमौ स्रग्विणौ, अयम् अनयोरतिशयेन स्रग्वी स्रजियान्। अयम् अस्मात् स्रजीयान्। सर्वे इमे त्वग्वन्तः, अयम् एषाम् अतिशयेन त्वग्वान् त्वचिष्ठः। उभाविमौ त्वग्वन्तौ, अयम् अनयोरतिशयेन त्वग्वान् त्वचीयान्। अयम् अस्मात् त्वचीयान्।
TBD.
1232 विनो मतुपश्च लुक् स्यादिष्ठेयसोः. अतिशयेन स्रग्वी स्रजिष्ठः. स्रजीयान्. अतिशयेन त्वग्वान् त्वचिष्ठः. त्वचीयान्..
विन्मतोर्लुक्। इष्ठेयसोरिति। `अजादी' इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः। रुआजिष्ठ इति। रुआग्विन्शब्दादिष्ठनि विनो लुकि तन्निमित्तपदत्वभङ्गात्रकुत्वनिवृत्तिरिति भावः। एवं रुआजीयानिति। त्वचिष्ठ इति। त्वग्वच्छब्दादिष्ठिनि मतुपो लुकि तन्निमित्तपदत्वभङ्घात्कुत्वनिवृत्तिरिति भावः। एवं त्वचीयान्। अत एव ज्ञापकादाभ्यामिष्ठन्नीयसुनौ।
1511 विन्मतोर्लुक्। रुआजिष्ठ इति। विनो लुकि कृते भत्वात्पदकार्याऽभावः। अस्मादेव ज्ञापकादगुणवचनत्वेऽपि विन्मतेरजादी भवतः।
TBD.