Table of Contents

<<5-3-57 —- 5-3-59>>

5-3-58 अजादि गुणवचनादेव

प्रथमावृत्तिः

TBD.

काशिका

इष्ठन्नीयसुनौ अजादी सामान्येन विहितौ, तयोरयं विषयनियमः क्रियते, गुणवचनादेव भवतस्तौ न अन्यस्मादिति। पटीयान्। लघीयान्। पटिष्ठः। लघीष्ठः। इह न भवतः, पाचकतरः, पाचकतमः इति। एव कारः इष्टतो ऽवधारणार्थः, प्रत्ययनियमो ऽयं न प्रकृतिनियमः इति। पटुतरः। पटुतमः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अजादी। तरप्तमुपौ इष्ठन्नीयसुनौ चेति चत्वारः प्रत्यया अनुक्रान्ताः। तेषां मध्ये यौ अजादी इष्ठन्नीयसुनौ तावित्यर्थः। तदाह–इष्ठन्नीयसुनाविति। पाचकतरः, पाचकतम इति। क्रियाशब्दत्वादाभ्यामिष्ठन्नीसुनौ नेति भावः। `गुणवचनादजादी एवे'ति विपरीतनियमव्यावृत्त्यर्थ एवकारः। तेन पटुतरः पटुतम इत्यादि सिद्धम्।

तत्त्वबोधिनी

1502 अजादी गुणवचनादेव। इष्टतोऽवधारणार्थ एवकारः। तेन प्रत्यय नियमोऽयम्। एवकाराऽभावे तु `गुणवचनादजादिप्रत्ययावेवे'ति प्रकृतिनियमोऽपि सम्भाव्येत। तथा च पटुतरः, पटुतम इत्यादि न सिध्येत्।

Satishji's सूत्र-सूचिः

TBD.