Table of Contents

<<5-3-52 —- 5-3-54>>

5-3-53 भूतपूर्वे चरट्

प्रथमावृत्तिः

TBD.

काशिका

पूर्व भूतः इति विगृह्य सुप्सुपेति समासः। भूतपूर्वशब्दो ऽतिक्रान्तकालवचनः। प्रकृतिविशेषणं च एअत्। भूतपूर्वत्वविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे चरट् प्रत्ययो भवति। आढ्यो भूतपूर्वः आढ्यचरः। सुकुमारचरः। टकारो ङीबर्थः। आढ्यचरी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

भूतपूर्वे चरट्। भूतपूर्वे वर्तमानात्प्रातिपदिकात्स्वार्थे चरट् स्यादित्यर्थः।

तत्त्वबोधिनी

1495 भूतपूर्वे। अत्र वर्तमानाच्चरट् स्यात्। `गोष्ठात् खञि'त्यत्रैव नोक्तं, विशेषविहितेन खञा चरटो बाधा मा भूदिति। संनिधौ हि सामान्यविशेषभावः स्फुटीभवति। यद्यपि दूरस्थस्यापि बाधो न्याय्य एव, तथापीह गौरवं स्वीकृत्य दूरे पाठसामथ्र्याद्बाधो नेति भावः।

Satishji's सूत्र-सूचिः

TBD.