Table of Contents

<<5-3-52 —- 5-3-54>>

5-3-53 भूतपूर्वे चरट्

प्रथमावृत्तिः

TBD.

काशिका

पूर्व भूतः इति विगृह्य सुप्सुपेति समासः। भूतपूर्वशब्दो ऽतिक्रान्तकालवचनः। प्रकृतिविशेषणं च एअत्। भूतपूर्वत्वविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे चरट् प्रत्ययो भवति। आढ्यो भूतपूर्वः आढ्यचरः। सुकुमारचरः। टकारो ङीबर्थः। आढ्यचरी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

भूतपूर्वे चरट्। भूतपूर्वे वर्तमानात्प्रातिपदिकात्स्वार्थे चरट् स्यादित्यर्थः।

तत्त्वबोधिनी

1495 भूतपूर्वे। अत्र वर्तमानाच्चरट् स्यात्। `गोष्ठात् खञि'त्यत्रैव नोक्तं, विशेषविहितेन खञा चरटो बाधा मा भूदिति। संनिधौ हि सामान्यविशेषभावः स्फुटीभवति। यद्यपि दूरस्थस्यापि बाधो न्याय्य एव, तथापीह गौरवं स्वीकृत्य दूरे पाठसामथ्र्याद्बाधो नेति भावः।

Satishji's सूत्र-सूचिः

TBD.