TBD.
षष्ठ्यन्तात् प्रातिपदिकात् रूप्यः प्रत्ययो भवति। चकाराच् चरट् च। षष्ठ्यन्तात् प्रत्ययविधानात् संप्रति भूतपूर्वग्रहणं प्रत्ययार्थस्य विशेषणं, न तु प्रकृत्यर्थविशेषणम्। देवदत्तस्य भूतपूर्वो गौः देवदत्तरूप्यः, देवदत्तचरः।
TBD.
–
षष्ठ\उfffदा रूप्य च। `रूप्ये'ति लुप्तप्रथमाकम्। `भूतपूर्वे' इत्यनुवर्तते। षष्ठ\उfffद्न्ताद्भूतपूर्वेऽर्थे इति। भूतपूर्वेऽर्थे विद्यमानात्षष्ठ\उfffद्न्तादित्यन्वयः। भूतपूर्वे इत्यनुवृत्तं हि श्रुतत्वात्षष्ठ\उfffदा विशेषणम्। भूतपूर्वे सम्बन्धे या षष्ठी तदन्तात्स्वार्थे रूप्यः स्यादिति फलति। यथाश्रुते तु स्वार्थिकप्रकरणविरोधः। कृष्णरूप्य इति। भूतपूर्वगत्या कृष्णसंबन्धी गौरित्यर्थः। शुभ्रारूप्यशब्दे `तसिलादिषु' इति पुंवत्त्वमाशङ्क्य `तसिलादयः प्राक्पाशपः' इत्यादिवार्तिकपरिगणितेषु रूप्यस्यानन्तर्भावात्तस्मिन्परे पुंवत्त्वं नेत्याह–तसिलादि\उfffदिआत्यादि। शुभ्राया भूतपूर्व इति। `गौ'रिति शेषः। शुभ्रारूप्य इति। भूतपूर्वगत्या शुभ्रासंबन्धी गौरित्यर्थः।
1496 षष्ठ\उfffदा रूप्य च। भूतपूर्व इत्यनुवर्तते। तच्च यद्यपि पूर्वत्र ङ्याप्प्रातिपदिकस्य विशेषणं, तथापीह न तथा, षष्ठ\उfffद्न्तार्थस्य विशेषणत्वात्, तदाक्षिप्तस्य 'संबन्धिनो गवादेः प्रधानत्वात्, प्रधानेतरसंनिधौ च प्रधाने कार्यसंप्रत्यस्य न्याय्यत्वात्। त [देत]दाह—भूतपूर्वेऽर्थे रूप्यः स्यादिति।
TBD.