Table of Contents

<<5-3-51 —- 5-3-53>>

5-3-52 एकादाकिनिच् च असहाये

प्रथमावृत्तिः

TBD.

काशिका

एकशदाद् सहायवाचिनः स्वार्थे आकिनिच् प्रत्ययो भवति। चकारात् कन्लुकौ च। आकिनिचः कनो वा लुग् विज्ञायते। स च विधानसामर्थ्यात् पक्षे भवति। एकाकी, एककः, एकः। असहायग्रहणं सङ्ख्याशब्दनिरासार्थम्। तदुपादाने हि द्विबह्वोर् न स्यात्, एकाकिनौ, एकाकिनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

एकादाकिनिच्चा। असहायवाचकादेकशब्दात्स्वार्थे आकिनिच्यप्रत्ययः स्यादित्यर्थः।

तत्त्वबोधिनी

1494 एकाधाकिनिच्चा। असहायवाचिन एकशब्दादाकिनिच् स्यात्। कुन्लुकाविति। आकिनिचः कनो वा पक्षे लुक्। तयोरेवानेन सूत्रेण विधानात्। असहायग्रहणं सङ्ख्याशब्दनिरासार्थम्, अन्यथा प्रसद्धत्वात्संख्याप्रकरणाच्च तस्यैव ग्रहणं स्यात्। इष्टापत्तौ तु द्वित्वे बहुत्वे च न स्यादेकाकिनौ एकाकिन इति। न हि द्वयोर्बहुषु वा एकत्वसंख्याऽस्ति। असहायत्वं तु परस्परातिरक्तसहायाऽभावेन द्वयोर्बहूनामपि भवति। इह अकिनिजेवायं वक्तव्यः, सवर्णदजीर्घेण सिद्धमिष्टम्। `यस्येति चे'ति लोपश्चाऽकारोच्चारणसामथ्र्यान्न भवतीत्यादि हरदत्तग्रन्थे स्थितम्।

Satishji's सूत्र-सूचिः

TBD.