Table of Contents

<<5-3-48 —- 5-3-50>>

5-3-49 प्रागेकादशभ्यो ऽच्छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

पूरणाद् भागे इत्येव। प्रागेकादशभ्यः सङ्ख्याशब्देभ्यः पूरणप्रत्ययान्तेभ्यः भागे वर्तमानेभ्यः स्वार्थे ऽन् प्रत्ययो भवति अच्छन्दसि विषये। स्वरार्थम् वचनम्। पञ्चमः। सप्तमः। नवमः। दशमः। प्रागेकादशभ्यः इति किम् एकादशः। द्वादशः। अच्छन्दसि इति किम्? तस्य पञ्चममिन्द्रियस्याऽपाक्रामत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

प्रागेकदशभ्यः। शेषपूरणेन सूत्रं व्याचष्टे-पूरणप्रत्ययान्ताद्भागेऽनिति। द्वितीयतृतीयशब्दाभ्यां पूर्वसूत्रेण सिद्धत्वाच्चतुर्थादिदशमशब्दपर्यन्तविषयकमिदमित्यभिप्रेत्योदाहरति–चतुर्थ इति। नचानेनैव सिद्धत्वात्पूर्वसूत्रं किकिमर्थमिति शङ्क्यं, तस्य छन्दस्यापि प्रवृत्त्यर्थत्वात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.