Table of Contents

<<5-3-47 —- 5-3-49>>

5-3-48 पूरणाद् भागे तीयादन्

प्रथमावृत्तिः

TBD.

काशिका

पूरणप्रत्ययो यस्तीयः, तदन्तात् प्रातिपदिकाद् भागे वर्तमानात् स्वार्थे अन् प्रत्ययो भवति। स्वरार्थम् वचनम्। द्वितीयो भागः द्वितियः। तृतीयः। भागे इति किम्? द्वितीयम्। तृतीयम्। पूरणग्रहणम् उत्तरार्थम्, न ह्यपूरणस्तीयो ऽस्ति। मुखतीयादिरनर्थकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

पूरणाद्भागे। पूरणार्थकतीयप्रत्ययान्ताद्भागे विद्यमानात्स्वार्थे अन्स्यादित्यर्थः। अन्विधेः प्रयोजनमाह–स्वरे विशेष इति। `ञ्नित्यादिर्नित्य'मिति स्वरे इत्यर्थः। स्थितम्। विद्यावृत्तेस्तीयप्रत्ययान्तादीकङ्नेत्यर्थः।

तत्त्वबोधिनी

1493 पूरणाद्भागे। पूरणार्थत्वात्तीयप्रत्ययः पूरणशब्देनोक्तः। पूरणग्रहणं चोत्तरार्थम्, न ह्रपूरणस्तीयप्रत्ययो भवति। मुखतीयः इत्यत्र त्वनर्थकत्वान्नतिप्रसङ्गः। भग इति पुंस्त्वं विवक्षितम्। तेन समानेऽप्यर्थे विभक्तौ विवक्षितायां चतुर्थी पञ्चमीत्येव भवति। `प्रागेकादशभ्यः'इत्यनि सति तु टापि चतुर्था पञ्चमेति प्रसज्येत।

Satishji's सूत्र-सूचिः

TBD.