Table of Contents

<<5-3-46 —- 5-3-48>>

5-3-47 याप्ये पाशप्

प्रथमावृत्तिः

TBD.

काशिका

याप्यः कुत्सितः इति उच्यते। याप्ये वर्तमानात् प्रातिपदिकात् स्वार्थे पाशप् प्रत्ययो भवति। याप्यो वैयाकरणः, कुत्सितो वैयाकरणः वैयाकरणपाशः। याज्ञिकपाशः। यो व्याकरनशास्त्रे प्रवीणो दुःशीलः, तत्र कस्मान् न भवति? यस्य गुणस्य सद्भावाद् द्रव्ये शब्दनिवेशः, तस्य कुत्सायां प्रत्ययः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

याप्ये पाशप्। याप्यः=कुत्सितः। `निकृष्टप्रतिकृष्टाऽर्वरेफयाप्याऽवमाऽधमाः' इत्यमरः। कुत्सितेविद्यमानात्स्वार्थे पाशप्स्यादित्यर्थः। प्रवृत्तिनिमित्तकुत्सायामिदम्। अप्रवृत्तिनिमित्तकुत्सायामपि कुत्सित इति वक्ष्यमाणं भवतीति भाष्ये, स्पष्टम्।

तत्त्वबोधिनी

1492 याप्ये पाशप्। `कुत्सिते'इत्यत्रैव नाऽयं विहितः, तिङन्तादपि प्रसङ्गात्।

Satishji's सूत्र-सूचिः

TBD.