Table of Contents

<<5-3-45 —- 5-3-47>>

5-3-46 एधाच् च

प्रथमावृत्तिः

TBD.

काशिका

द्वित्र्योः सम्बन्धिनो धाप्रत्ययस्य एधाचादेशो भवत्यन्यत्रस्याम्। चकारो विकल्पानुकर्षणार्थः। द्वेधा, द्वैधम्, द्विधा। त्रेधा, त्रैधम्, त्रिधा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

एधाच्च। द्वित्रिभ्यां परस्य धाप्रत्ययस्यं एधाजित्यादेशः स्यादित्यर्थः। `पञ्चम्यास्तसि'लित्यारभ्य `एधाच्चे'त्यन्तैर्विहितप्रत्ययान्तानामव्ययत्वम्।

तत्त्वबोधिनी

1491 एधाच्च। द्वित्र्योः संबन्धिनो धाप्रत्ययस्य एधाच् स्यात्। योगविभागो यथासङ्ख्यनिरासार्थः।

Satishji's सूत्र-सूचिः

TBD.