Table of Contents

<<5-3-44 —- 5-3-46>>

5-3-45 द्वित्र्योश् च धमुञ्

प्रथमावृत्तिः

TBD.

काशिका

धा इत्यनुवर्तते। द्वित्र्योः सम्बन्धिनो धाप्रययस्य विधार्थे अधिकरणविचाले च विहितस्य धमुञादेशो भवति अन्यतरस्याम्। चकारो विकल्पानुकर्षणार्थः। द्विधा, द्वैधम्। त्रिधा, त्रैधम्। धमुञन्तात् स्वार्थे डदर्शनम्। मतिद्वैधानि संश्रयन्ते। मतित्रैधानि संश्रयन्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

द्वित्र्योश्च धमुञ्। षष्ठी पञ्चम्यर्थे। `ध' इति `अन्यतरस्या'मिति चानुवर्तते। तदाह–आभ्यामिति। `परस्ये'ति शेषः। दृशिग्रहणात्क्वचिदेवायम्। पति द्वैधानीति। `तृणानी'ति शेषः। `द्वैध'मित्यस्माड्डप्रत्यये टिलोपे रूपम्। नच `तसिलादयः प्राक् पाशपः' इति डप्रत्ययान्तस्याप्यव्ययत्वं शह्क्यं, स्वभावतः सत्त्ववचनत्वेनाऽव्ययत्वाऽसंभवात्, `द्वैधानी'ति भाष्यप्रयोगाच्च।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.