TBD.
एकशब्दात् परस्य धाप्रत्ययस्य ध्यमुञादेशः भवत्यन्यतरस्याम्। एकधा राशिं कुरु, ऐकध्यं कुरु। एकधा भुङ्क्ते, ऐकध्यं भुङ्क्ते। प्रकरणादेव लब्धे पुनर् धाग्रहणम् विधार्थे विहितस्य अपि यथा स्यात्। अनन्तरस्य एव ह्येतत् प्रत्प्नोति।
TBD.
–
एकाद्धो। एकात्-ध इति च्छेदः। धाशब्दस्य `ध' इति षष्ठ\उfffदेकवचनम्। एकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशः स्यादित्यर्थः। ऐकध्यमिति। नच एकशब्दात् ध्यमुञ्प्रत्ययः स्वतन्त्रो विधीयतां नतु धाप्रत्ययस्यादेश इति वाच्यं, तथा सति अधिकरणविचाल एव सन्निहितत्वादापत्तेः।
1490 एकाद्धो। शब्दप्रधानत्वात्सर्वनामकार्याऽभावः। इह प्रकरणादेव सिद्धे पुनर्धाग्रहणं विधार्थे विहितस्यापि यथा स्यात्। `अनन्तरस्ये'ति न्यायेनाधिकरणविचाले विहितस्यैव हि प्राप्नोतीति वृत्तिपदमञ्जार्योः स्पष्टम्। एतेन ध्युमञ् स्वतन्त्र एव प्रत्ययोऽस्त्वित्याशङ्का परास्ता। ऐकध्यमिति। विधार्थे—`एकेध्यं भुङ्क्ते'। अधिकरणविचाले तु–ऐकध्यं राशिं कुर्वि 'त्यादि ज्ञ्यम्। एवमग्रेऽपि द्वैधमिच्यादौ योज्यम्।
TBD.