TBD.
सङ्ख्यायाः इत्येव। अधिकरणं द्रव्यं, तस्य विचालः सङ्ख्यान्तरापादनम्। एकस्य अनेकीकरणम् अनेकस्य वा एकीकरणम्। अधिकरणविचाले गम्यमाने सङ्ख्यायाः स्वार्थे धा प्रत्ययो भवति। एकं राशिं पञ्चधा कुरु। अष्टधा कुरु। अनेकम् एकधा कुरु।
TBD.
–
अधिकरणविचाले च। अधिकरणं–द्रव्यं, तस्य विचालः=विचालनं, सङ्ख्यान्तरापादनम्। तदाह–द्रव्यस्येति। सङ्ख्यान्तरापादनं च न्यूनसङ्ख्यस्य अधिकसङ्ख्याकरणम्, अधिकसङ्ख्यस्य न्यूनसङ्ख्याकरणं च। आद्ये उदाहरति–एकं राशिंपञ्चधा कुर्विति। द्वितीये तु `अनेकमेकधा कुर्वि' त्युदाहार्यम्। इह राशिविषयक एव प्रकारो गम्यते नतु क्रियाप्रकार इति सूत्रारम्भः।
1489 अधिकरणविचाले च। अधिकरणं=द्रव्यं, विचलनं विचालः=अन्यथाकरणम्। णिजन्तादेरच्। तच्चेह संख्यासंनिधानात्संख्यान्तरापादनमिति व्याचष्टे—द्रव्यस्येत्यादिना। संख्यान्तरापादनं हि एकस्यानेकीकरणम्, अनेकस्य च एकीकरणम्। तत्राद्ये उदाहरणम्—- एकं राशिं पञ्चधेति। पञ्च राशीन्कुर्वित्यर्थः। द्वितीये तु—`अनेकं एकधा कुर्वि'त्युदाहर्तव्यम्। इह क्रियाविषयकप्रकारो न गम्यत इति सूत्रारम्भः।
TBD.