Table of Contents

<<5-3-41 —- 5-3-43>>

5-3-42 सङ्ख्याया विधार्थे धा

प्रथमावृत्तिः

TBD.

काशिका

सङ्ख्यावाचिभ्यः प्रातिपदिकेभ्यो विधार्थे वर्तमाणेभ्यो धा प्रत्ययो भवति स्वार्थे। विधा प्रकारः, स च सर्वक्रियाविषय एव गृह्यते। क्रियप्रकारे वर्तमानायाः सङ्ख्याया धा प्रत्ययः। एकधा भुङ्क्ते। द्विधा गच्छति। त्रिधा। चतुर्धा। पञ्चधा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

सङ्ख्याया विधार्थे धा। विधाशब्दस्याऽर्थः प्रकारो विधार्थः। `विधा विधौ प्रकारो विधार्थः। `विधा विधौ प्रकारे चे'त्यमरः। सामान्यस्य भेदको विशेषः-प्रकारः। सचाभिधानस्वभावाक्रियाविषयक एव गृह्रते। तदाह–क्रियाप्रकारेति। चतुर्धापञ्चधेति। `गच्छती'त्यादि क्रियापदमध्याहार्यम्। चतुष्प्रकारा गमनादिक्रियेति बोधः। `नवधा द्रव्य'मित्यादावपि `भवती'त्यादि क्रियापदमध्याहार्यम्।

तत्त्वबोधिनी

1488 सङ्ख्याया विधार्थे धा। विधाशब्दस्याऽर्थो विधार्थः। यद्यप्योदनपिण्डोऽपि विधाशब्देनोच्यते तथापीह न गृह्रते। तेन एका गोविधेत्यादौ न भवति। इह हि `विधाया'मिति वक्तव्ये अर्थग्रहणस्य प्रयोजनं–विधाशब्दो यत्रार्थे प्रसिद्धतरस्तत्रैव यथा स्यात्। तादृशश्चार्थः प्रकार एव, स च क्रियाविषयक एव गृह्रते, अभिदानस्वभावात्। तदाह—क्रियाप्रकारे वर्तमानादिति। कथं तर्हि `नवधा द्रव्यं,' बहुधा गुणः' इत्यादि?। अत्रापि ह्रश्रुता क्रिया प्रतीयते `उपदिश्यते इति वा'इति हरदत्तः।

Satishji's सूत्र-सूचिः

TBD.